पृष्ठम्:Dvisandhanam kavya.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सर्गः] द्विसंधानम् । विद्यानवयैः कवचानि शस्त्रैस्तेन द्विधामित्सत शात्रवस्य । सहस्रशः सैतमसानि तीब्ररुनिशीथस्य विवस्यतेव ॥ ७९ ॥ विधेति ॥ तेन राजसमूहेन विद्यानवर्धनुर्विद्यापूतैः शनैः शात्रवस्य शत्रुसमूहस्य क- वचानि द्विधा । विवस्वता सूर्येण तीनैः सोढुमशक्यैरुः किरणैनिशीथस्य संतमसानि घनान्धकाराणि सहनश इव । अभित्सत ॥ करीव सोऽपात्तमुखच्छदोऽयं व्यपोढवर्मा युधि वैरिवर्गः । पतन्गृहीतासिररोधि बाणैर्नयैर्विनीपात इवावनीशैः ।। ७६ ॥ करीवेति ॥ अवनीशैः क्षितिपालैः युधि समरे करी गज इव अपात्तमुखच्छदः परि- त्यक्तमुखप्रच्छादनो व्यपोढवर्मा मुक्तकवचः अयं वैरिवर्गः शत्रुसमूहो गृहीतासिः स्वीकृत- खगः पतन् पाणैः । विनीपातो दुर्नयो नयैरिव । अरोधि ॥ निहत्य निस्त्रिंशगतिं तदीयां धुतः कथंचिन्नृपतिव्रजेन । प्रभावशास्त्रप्रबलेन तेन शमेन रागादिरिवारिसंघः ॥ ७७ ॥ निहत्येति ॥ प्रभावशास्त्रप्रबलेन प्रभावशं दीप्त्यायत्तम् अस्त्र शस्त्रं यस्य तत् प्रकृष्टं बलं यस्य तेन, नृपतिव्रजेन राजसमहेनारिसंघस्तदीयां शत्रुसंबन्धिनी निविंशगति खड्ड- गतिम् । प्रभावशास्त्रप्रवलेन प्रकृष्टो भावो यस्य तादृशः शास्त्रात् प्रकृष्टं बलं यस्य तेन श- मेन रागादिस्तदीयां निस्त्रिंशगति निर्दयप्रवृत्तिमिव । निहत्य धृतः ॥ अभूम शौर्यस्य पदं रणेऽस्मिन्नधाम धैर्य प्रथितं वयं तत् । अस्थामयुक्ता इति भूमिपानां समु(मो)यते स्म द्वितयेन युद्धम् ॥७८॥ अभूमेति ॥ यतो वयम् अस्थामयुक्ता असामर्थ्यसमन्विता अभूम संजाताः तत् तस्मा. कारणात् अस्मिन् रणे शौर्यस्य पदं स्थानं धैर्य प्रथितं, न तु धाम प्रतापलक्षणतेजः इति भूमिपानां द्वितयेन युद्धम् समु(मो)यते सम्यगासमन्तानीयते स्म ॥ भारतीये- वयं शौर्यस्य पदम् अभूम, अस्मिन् रणे, प्रथितं धैर्य अधाम धृतवन्तः, तत् युक्ता मिलि- ता अस्थाम स्थितवन्त इति, समु(मो)यते सम्यक् वितर्यते ॥ बिभ्रत्सदाशाननिरूढदीप्तिं गान्धारकोऽसि पतितोऽधिकर्षिः । समारुतिः किंनरराजवन्यो जातोऽत्र भीमोहननाददूरः ॥ ७९ ॥ बिभ्राविति ॥ दीप्तिं धृततेजसम् असिं खङ्गं बिभ्रत् (नाभ्यस्तादिति न नुम्), गो पृथिवीं धारको भर्ता, अधिकर्षिः प्रचुरसमृद्धिः, समारुतिः मया प्रमाणेन सहिता रुति. ध्वनिर्यस्य स बन्धः प्रशस्यः पतितः प्राप्तः स दाशाननी रावणात्मज इन्द्रजित् किं न रराज । राजैव । अत्र रणे भीमोहननाददूरः भिया भयेन मोहनं यस्मानादाह्रो भय- मोहध्वनिवर्जितः, जातः । (१) आशाननिरूढदीप्तिम् आशानां दिशाम् आनं प्राणनं य- स्मात निशितकान्तिम् असिम्, सदा बिभ्रत्स 1(२)भारतीये-शा- Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८७&oldid=234657" इत्यस्माद् प्रतिप्राप्तम्