पृष्ठम्:Dvisandhanam kavya.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। ध्वनत्सु तूर्येषु शिवाङ्गनासु धेजे समझाल्यरवोधतासु। सशोणिता भूः परिणीयमाना कन्याभिषिक्तेव कषायतोयैः ॥ ७० ॥ ध्वनस्विति ॥ भूः पृथ्वी सूर्येषु ध्वनत्सु, शिवाङ्गनासु मृगालीषु समं युगपत् गल्य- रवोद्यतासु गल्ये कण्ठमवे वे उद्यतासु सतीषु सशोणिता सरक्ता । परिणीयमाना कन्या समङ्गल्यरवोद्यतासु मङ्गलाईरवेण सहितासूचतासु शिवाङ्गनासु समर्टकभार्यासु सतीषु, कषायतोयैरभिषिक्तेय । श्रेजे॥ इत्युद्यतं राजकमन्यपक्षं प्रत्युद्ययावुत्कमुपेन्द्रगृह्यम् । स्वमर्पयन्तं सदनेऽभिमित्रं रणेऽभ्यमित्रीणमुदारमाहुः ॥ ७१ ॥ इत्युधेति ॥ उपेन्द्रयं लक्ष्मणगृखं नारायणगृयं उत्कमुत्कण्ठितं राजकं राजसमूह: इत्येवप्रकारेण उद्यतम् अन्यपक्षं शत्रुपक्षम् उद्ययौ । सदने अभिमित्रं मित्रमभिलक्ष्य स्व- मात्मीयम् , रणे अभ्यमित्रीणं शत्रुसंमुखगमनशीलम् , स्वमात्मानम् अर्पयन्तम् , उदा- रम् आहुः॥ खं पूर्वकायं प्रविशद्भिरश्वैरमुक्तमार्गरथकर्मभारैः । अतारि तिर्यङ्नरकोपबद्धा कृच्छात्कृताधैरिव जन्यभूमिः ।। ७२॥ स्वमिति ॥ स्वमात्मीय पूर्वकायमग्रा प्रविशद्भिः अमुक्तमागैरत्यक्तसंचरै रथकर्ममारैः रथकमैव भारो येषां तैरवैः, नरकोपबद्धा नराणां कोपर्षद्धा, जन्यभूमी रणमूमिस्तिर्यग् यथा स्यात्तथा । अमुक्तमार्गः न मुक्तानां मार्गो येषु तैः कर्मभारैः करणैः स्वं पूर्वकार्य प्र. विशतिः कृताधैर्विरचितपापर्जनै तिर्यङ्नरकोपवद्धा तिर्यग्मिनरकैश्वोपबद्धा जन्यभूमिरिव । कृच्छास्कष्टात् अतारि। स्थान्यसावेशविवृत्तचक्रानथ्याः सुखेनाचकृषुस्तुरंगाः । सारथ्यभीषुभ्रमणानुकूलमाकृष्यते स्नेहवशेन सर्वः ॥ ७३ ॥ रथानिति ॥ रथ्या रथस्य वोढारस्तुरंगाः, वसावेशविकृत्तचक्रान् वसाया मांसनेहस्य आवेशेन लेपेन विवृत्तानि भ्रमणशीलानि चक्राणि येषां तान् रथान सारथ्यभीषु भ्रमणा- नुकूलं सारथिरज्जुभ्रमणानुलोमं यथा स्यात्तथा सुखेन आचकृषुः । मेहवशेन सर्व आकृष्यते ॥ ततोऽभ्यमित्रीयमिदं गरीयो राजन्यकं व्यातत धर्मलोपम् । गुणच्छिदापूर्वसरं परेषां क्रोधाकुलानामविधिः कुतो वा ॥ ७४ ॥ तत इति ॥ तत इदम् अभ्यमित्रीयम् अमित्र शत्रुमभिलक्ष्य गमनशीलं राजन्यक राजकुमारसमूहः परेषां शत्रूणां गुणच्छिदापूर्वसरं शौर्यादेायाश्च च्छिदा छेदनं पूर्वसरा यस्मिन् , धर्मलोपं धर्मस्य अदृष्टस्य धनुष्काण्डस्य च लोपं गरीयो यथा स्यात्तथा व्यातत। क्रोधाकुलानां कुतोऽविधिर्भवेत् ।। Digitzed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८६&oldid=234656" इत्यस्माद् प्रतिप्राप्तम्