पृष्ठम्:Dvisandhanam kavya.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ काव्यमाला। मृत्वा जीवित्वैव च यस्मिन्गुणमेयात्तस्मिन्मर्तु जीवितुमिच्छेद्गुणगृह्यम् । प्राहुः संपण्यापदमसाद्वनमुपैरामो हा नो नायत पाण्डुप्रभवोऽर्यः ॥१९॥ मृस्वेति ॥ जनो यस्मिन्कार्ये मृत्वा जीवित्वा एव गुणमेयात् प्राप्नुयात् । तस्मिन्नेव कार्ये मर्तु जीवितुमिच्छेत् । ते गुणण्यं गुणपक्षपातिनम्, संपयापदं प्राहुः । अस्मास्कार- णात् नोऽस्माकम् , अर्यः स्वामी, पाण्डुप्रभवः प्रशस्तजन्मा रामः, हा कष्टं वनमुच्चैरति. शयेन न आयत आयासीत् ॥ भारतीये-आम आईहृदयः । पाण्डप्रभवो युधिष्ठिरः ॥ मन्दोदर्यामिच्छसि चित्तव्यतिपातं न्याय्यं त्वं वैभीषणमुक्तं न शृणोषि । नाद्याप्युच्चैः किंचिदतीतं तव कार्य गत्वा विष्णुं तं प्रभविष्णुं वरिवस्य २० ___ मन्दोदेति ॥ मन्दोदर्या पट्टमहिष्यां चित्तव्यतिपातमप्रेमतयान्यत्र चेतो नेतुमिच्छसि, न्याय्यं न्यायादनपेतं वैभीषणं विभीषणीयमुक्तं वचनं वं न शृणोषि, अद्यापि सव किं. चित् कार्यमुचैरुच्चतरं नातीतम् , (तस्मात्) प्रभविष्णुं समर्थ तं विष्णु लक्ष्मणं गत्वोपेत्य वरिवस्य नमस्कुरु ॥ भारतीये-मन्दो हेयोपादेयविवेकविकलस्त्वं दो गुहायां चित्त. व्यतिपातं चित्तं प्रतिपातयितुमिच्छसि, वै निश्चये भीषणं भयानकम् । विष्णुं वासुदेवम् ॥ इत्युक्तेऽसिन्पादमुपात्तं मणिपीठात्प्रापय्योरु सव्यगतासिस्थितहष्टिः ।। न्यस्यन्नक्ष्णोरिन्द्रियवर्ग सकलं तु क्षोभात्कायं कोपविवृत्तिं गमयन्नु ॥२१॥ सभ्रूयुग्मं वैरविरुद्धं घटयन्नु विद्यन्क्रोधक्काथितलावण्यरसो नु । रुद्धः स्थित्वाधोरणमुख्यैद्विरदो नुप्रोचे विष्णोरित्यरिरग्निं विवमन्नु॥२२॥ (युग्मम्) इतीति ॥ अस्मिन् वाक्ये इत्युक्तरीत्योक्ते सति, स विष्णोर्लक्ष्मणस्य वासुदेवस्य अरी रावणो जरासंधो वा, उपात्तमाकृष्टं पादं मणिपीठादूरुं प्रापय्य सव्यगतासिस्थितदृष्टिः स- व्यगतेऽसौ कृपाणे स्थिता दृष्टिर्यस्य ताहक सकलमिन्द्रियवर्गमक्ष्णोय॑स्यन् क्षोभात कार्य कोपविकृत्तिं गमयन् श्रूयुग्मं वैविरुद्धं घटयन स्विद्यन् क्रोधकाथितलावण्यरसः कोपोत्कलितलावण्यरसः आधोरणमुख्यैहस्तिपकमुख्यै रुद्धः द्विरद इव । अमि वमन् सर्वत्र नु वितर्के इत्थं तर्यमाणः सन् स्थित्वा स्थितो भूत्वा इति वक्ष्यमाणं प्रोचे प्रोक्तवान् ॥ प्राणान्कृत्वान्यत्र कथंचित्तव कायं केनाप्यन्येनाविशतैतद्यदि वोक्तम् । भाषा नैषा ते ननु मत्तस्य विलापं श्रुत्वा मद्यस्यैष न तस्येत्यविचार्यम् २३ प्राणानिति ॥ कथंचिन्महाकष्टेन प्राणान् अन्यत्र कृत्वा त्यक्त्वा तव कायमाविशता प्र. विशता केनाप्यन्येनोक्तम् , यदि वा त्वयोक्तम्, एषा ते तव भाषा न, ननु अहो मत्तस्य भवत्प्रभोविलापं श्रुत्वा एष विलापो मद्यस्य, न तस्य पुरुषस्य, इति हेतोरविचार्यम् ।। Diguzed o; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४८&oldid=234607" इत्यस्माद् प्रतिप्राप्तम्