पृष्ठम्:Dvisandhanam kavya.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। क्या नखरैर्नविलिखन् , रसन् गर्जन्, अभिपतन् संमुखं गच्छन्, शरभः शार्दूल: गुहागहर्न गुहावने दरीमुखं वा व्यगाहत प्राविक्षत ॥ तमुदीक्ष्य शैलमुपयनभसा ववृधे स्वयं स भुवनाम्यधिकम् । करकन्दुकागिरिमतीय लघु पुरुषोत्तमोऽतिपरुषोऽनगणत् ॥ ३५ ॥ तामिति ॥ अतिपरुषो अतिनिष्ठुरः स पुरुषोत्तमो लक्ष्मणो नारायणश्च, तं शैलमुवीक्ष्य, रभसौत्सुक्येनोपयन समीपमागच्छन्, स्वयमात्मना, भुवनाभ्यधिकं यथा स्यात्तथा ववृधे । गिरि कोटिशिलानामानम् , करकन्दुकाद् इस्तगेन्दुकादतीव लघुमजगणत् ॥ जधनं निबध्य वसनेन धनं विनियम्य केशनिचयं शिरसि । भुवमुत्खनश्चरणपाणितलैः स ववल्ग मल्ल इव वल्गु नदन् ॥ ३६ ॥ जघनमिति ॥ स लक्ष्मणो विष्णुर्या वसनेन वस्त्रेण जघनं नितम्ब घनं यथा स्यात्तथा निवध्य शिरसि केशनिचयं विनियम्य दृढ़ नियन्त्र्य चरणपाणितलैर्भुवं भूमिमुत्खनन् वल्गु मनोहारि यथा स्यात्तथा नदन सन् मल्ल इव ववल्ग चचाल । पदघातजातदार मुक्तधरं स धराधरं सुकृतवान्कृतवान् । विजहाति वा बलवता निहतः श्लथमण्डलः किल न कः पृथिवीम्॥३७॥ पदेति ॥ सुकतवान् पुण्यवान् स लक्ष्मणो विष्णुश्च धराधरं कोटिशिलानामकपर्वत पदघातजातदार पदयो_तेन जाता दरी यत्र ताकु, मुक्तधर मुक्ता त्यक्ता धरा पृथ्वी येन ताहा यथा स्यात्तथा कृतवान् । बलवता निहतः श्लथमण्डलः सन् कः पृ. थिवीं न विजहाति ॥ स दरीमुखेन नतकुलतनुः प्रविशन्नधस्पदममुष्य गिरेः । सममि दर्शितवराहगतिर्गतवान्वराह इति नाम तदा ॥ ३८ ॥ . सदेति ॥ नतकुजतनुर्नता कुब्जा तनुः शरीरं यस्य सोऽमुष्य गिरेरधस्पदमधोभागं दरीमुखेन प्रविशन् दर्शितवराहगति दर्शिता वराहस्येव गतिर्येन स लक्ष्मणः कृष्णश्च तदा वराह इति नाम गतवान् इति सममि ॥ उरसा निपीड्य भुजयोतियं परितः प्रसार्य परिधार्य शिलाम् । समुदक्षिपद्वरविवाहशिलामिव गोमिनी परिणिनीषुरसौ ॥ ३९ ॥ उरसेति ॥ गोमिनी लक्ष्मी परिणिनीषुः परिणेतुमिच्छरसौ लक्ष्मणः कृष्णच, भुजयो- द्वितयमुरसा निपीव्य परितः सर्वतः प्रसार्य शिलां कोटिशिलाम् । वरविवाहशिलामिव । समुदक्षिपत् समुच्चिक्षेप ॥ कृतपाणिपीडनविधिः प्रथमं पुरुषोत्तमेन समुढतनुः । विरराज कोटिकशिला भयतः परिकम्पिता नववधूरिव सा ॥ ४०॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४०&oldid=234600" इत्यस्माद् प्रतिप्राप्तम्