पृष्ठम्:Dvisandhanam kavya.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ सर्गः] द्विसंधानम् । इति संकथां निशमयन्सुहृदः स निशामयन्सपदि तत्तदयम् । समराघवक्रमधुराजगती रतिमाप येन समवाप शिलाम् ॥ २९ ॥ इतीति ॥ येन लक्ष्मणेन, समराघवक्रमधुरा समा राघवस्य रघुसंबन्धिनः क्रमस्य धूर्ज- गती पृथिवी रतिमाप । सोऽयमिति पूर्वोक्तां सुहृदो हनूमतः संकयां वार्ता निशमयञ् शू- वंस्तत्तत्पदार्थजातं सपदि निशामयन् पश्यन् शिलां समवाय ॥ भारतीये-येन नारा- यणेन समराधवक्रमधुराजगतिः समरे अघस्य पापस्य वक्रस्य कुटिलस्य मधोत्यस्य रा- जगती राज्यम्, रतिं नाशमाप । सुहृदो भीमस्य ॥ ऋषिकोटिभीत इति जन्यभिया खगले निबध्य मदनेन नदीम् । प्रविविक्षुणा खलु कुतश्चिदियं न शिलाहृतेति कलितं हरिणा ॥३०॥ प्रभविष्यतः कलियुगाद्भयतो न खलूपगोप्य भुवि धर्मनिधिम् ।। यतिभिः शिलोपरिकृतेयमिति प्रवितर्कितं हलधरेण तदा ॥ ३१ ॥ ऋषीति ॥ ऋषिकोटिभीत इति जन्यभिया जनापवादभयेन स्वगले शिलां निवध्य नदी प्रविविक्षुणा मदनेन रतिपतिना कुतश्चिदियं शिला नाहृता । अपि वाहृतैव । इत्येवं प्रकारेण हरिणा लक्ष्मणेन कृष्णेन च कलितम् । प्रभविष्यतो भाविनः कलियुगात् तद्धे- तुकाद् भयतो भयात् भवि भूमौ धर्मनिधिमुपगोप्य गोपयित्वोपरीयं शिला खलु निश्च. येन यतिभिः कर्दभिः न कृता । अपि तु कृतैवेति तदा तत्काले हलधरेण रामेण बलम- द्रेण च प्रवितर्कितम् ॥ हरिणा निनाभिषवणोन्मनसा जनताविर्यमुपपादयितुम् । निकटान्न पाण्डकशिलागपतेः खलु साहृतेत्यवहितं हरिभिः ॥ ३२॥ हरिणेति ॥ जिनाभिषवणोन्मनसा जिनदेवस्याभिषेकं कर्तुमनसा हरिणेन्द्रेण जनता- विदूर्य जनसमूहनिकटतामुपपादयितुमगपतेर्मेरोनिकटात्समीपात् सा पाण्डुकशिला खलु नि- श्चयेनाहता इति हरिभिर्वानरैर्यादवैर्वावहितम् ॥ उपवीणयन्हषदि सिद्धपदं निलयान्निलिम्पनिवहो निरगात् । न महः क्षणं विषहते स्म हरेबलवत्तरोऽस्ति बलिनोऽप्यथवा ॥ ३३ ॥ उपवीति ॥ सिद्धपदं जिनेश्वरयश उपवीणयन् वीणयोपगायन् निलिम्पनिवहो देवस- महस्तेजः क्षणं न विषहते स्म । यतः बलिनोऽपि बलवत्तरोऽस्ति ॥ गजगण्डपट्टितमदच्छुरितां गजशङ्कया मुनिशिलां नखरैः । विलिखन्रसन्नभिपतञ्शरभः शरणं व्यगाहत गुहागहनम् ॥ ३४ ॥ गजेति ॥ गजगण्डष्टितमदच्छुरितां करिकपोलसंघर्षमदजलविलिप्तां मुनिशिलां गजश- १७ Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३९&oldid=234599" इत्यस्माद् प्रतिप्राप्तम्