पृष्ठम्:Dvisandhanam kavya.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ सर्गः] द्विसंधानम्। १२७ परतः पश्चाद्भागे नसम्, कुचभरात् स्तनभारात् किमप्यल्पं यथा स्वासथा पूर्वतो नतं तत्प- दयोरमराजनाचरणयोः पदं स्थानं कर्ट पुलिनेषु सैकतेष्वमराङ्गनागमनं सूचयति ।। अमुतश्च पुष्पशयनं रचितं नवयावकाङ्कितपदं त्रिदशैः । रुधिरारुणं कुसुमबाणचितं मदनस्य पञ्चकमिव ज्वलति ॥ १७ ॥ अमुत इति ॥ अमुतोऽमुष्मिन्प्रदेशे त्रिदशैर्देवै रचितं विहितं नवयावकाङ्कितपदं नूत- मालक्तकचिहितचरणं पुष्पशयनं कुसुमशय्या। रुधिरारुणं रक्तशोणितं कुसुमबाणचि. तं प्रसूनशरव्याप्तं मदनस्य कंदर्पस्य पश्चकं रणस्थलमिव । ज्वलति भाति ॥ स्तनतापसूनमवनम्रनलं विशपत्रमत्र कुसुमास्तरणे । किमुतोज्झितान्यमनसा विगुणा सुरयोषिता विरहवल्लकिका ॥ १८ ॥ स्तनेति ॥ अत्र कुसुमास्तरणे, स्तनतापसूनं कुचतापशुष्कम् (अतएव) अवनम्रनलं म्लाननालं विशपत्रं पद्मिनीदलम् अस्ति । अन्यमनसा विरहेण खिन्नचित्तया सुरयोषिता भमररमण्या विगुणा त्रुटिततत्रीविरहवालकिका वियोगवीणोमिता त्यक्ता किमुत । मृगनाभिज परिमलं द्विरदः करिदानगन्धमनुयाति हरिः। इह जन्तुरेवमपरोऽपि परं विनिहन्तुमेव समनुव्रजति ॥ १९॥ मृगेति ॥ परिमलेनैव तत्तद्धान्त्या तस्य तस्य विनिहन्तुं धावनम् ॥ सरसीह मज्जति करिण्यलिनां परिधिः कराग्रनिभृतः स्फुरति । जलदेवतार्थमिददुद्गतवत्क्षणमातपत्रमिव बर्हमयम् ॥ २० ॥ सरसीति ॥ इह सरसि, करिणि मजाति सति, कराप्रनिभूतः शुण्डादण्डास्थितो अ. लिनां परिधिः परिवेषः । जलदेवतार्थमुद्गतवदुदितं क्षणं बईमयं पिच्छमयम् आतप- छत्रमिव । स्फुरति ।। सबलाकिका नवतृणा जगती मृदु निझर वहति वाति मरुत् । सवितावृतश्च विपिनरिह किं जलदागमः सततसंनिहितः ॥ २१ ॥ सबलाकीति ॥ इह सबलाकिका बलाकया विसकण्टिकया सहिता, नववृणा नूतनत- णा जगती पृथ्वी मृदु निर्झर वहति, मरुद्वायुर्वाति, सविता च विपिनरावृतः । तथा च जलदागमः प्रावट्कालः किं सततसंनिहितोऽस्ति ॥ द्विपदन्तपत्रमदमौकिकवधतः श्रवोभुजगलं शनरान् । करिणां न केवलमसून्मनुवे हरतोऽमुतः सकलप्सारमपि ॥ २२ ॥ द्विपति ॥ अमुतोऽमुष्मिन्देशे द्विपदन्तपत्रमदमौक्तिकवत् गजानां दन्तपत्रमदमौक्तिक- व्याप्त श्रवोभुजपलं कर्णबाहुकण्ठं यथाक्रमं दधतः शबरान् केवलं करिणामसूत् प्राणान् हरतो न मनुवे । किंतु सकलसारम् अपि हरतः॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३७&oldid=234597" इत्यस्माद् प्रतिप्राप्तम्