पृष्ठम्:Dvisandhanam kavya.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तवेति ॥ यत् यस्मास्कारवादु अहो, तव पूर्वजेन रखुणा किमरातयो नोपनता न निहताः । निहता एव। स रघुः सकलं जगत् कया तव शिलोखरणडम्बनया वशगं कृतवान् ॥ भारतीये-यदुना यादवकुलाद्यपुरुषेण, नरघुणा नरकीटा अरातयः॥ जनमाकलख भुवि सांशयिक भवतस्तथाप्युचितमुद्यमनम् । तदिदं द्विषां हि पलितंकरणं विजयश्रियश्च सुभगंकरणम् ॥ १२ ॥ जनमिति ॥ यद्यपि त्वं भुवि जनं सांशयिक संशयापनमाकलस्वालोकय । तथापि भक्त उद्यमनमुयम उचितम् । हि स्फुटं तदिदमुद्यमनं द्विषां पलितंकरणम्, विजयश्रियः सुभगंकरणम् अस्ति ॥ 'भान्यसुभग-' इति व्यर्थे ख्युन् । कुलपर्वताः कुलपराभवतः समवैमि तेऽद्य निजमुन्नमनम् । कलयन्ति फल्गु विलयं मनुते सवितोदयास्तमयसानुमतोः ॥ १३ ॥ कुलेति ॥ कुलपर्वता मेर्वादयस्ते तव कुलपराभवतः कुलात्पराभवतो निजं स्व- कीयमुनमनं फल्गु व्यर्थ कलयन्ति मन्यन्ते । इति हेतोः। अद्य सांप्रतं सवितोदयास्तम- बसानुमतोरुदयाद्यस्तायोर्विलयं मनुते । एतेन स्वस्य निराश्रयत्वशङ्कया सखेदता मता भवति । इत्यहं समवैमि जाने । तदितो निरूपय पयोधरयोस्तटयोभरेण मृदुमन्दगतिम् । बलिशोभितां सरितमश्वमुखीमपि सारसानुगमनाकुलिताम् ॥ १४ ॥ तदित इति ॥ तस्मादितः स्थानात् । पयोधरयोजलधारिणोस्तटयोः कूलयोभरेण मृ- दुमन्दगति पेशलालसप्रवाहाम्, तटयोरुच्छ्रितयोः । 'तट उच्छ्राये। पचाद्यन् । पयोधरयोः स्तनयोरेण भारेण मृदुमन्दगति पेशलालसगमनां च । बलिशोभितां तरजभूषितां, जठ- रराजित्रयविराजितां च । सारसानुगमनाकुलितां सारसानां लक्ष्मणानामनुगमनेन पश्चा- द्वत्या आकुलिताम्, सारेणोत्कृष्टेन सानुषु गमनेनाकुलितां च । सरितं नदीम् अश्वमुखी किंनरी च निरूपयावलोकय ॥ इह सैकतं तरणितप्तमिदं परिहृत्य हंसकुलमेति सरः । विरला वसन्ति च सति व्यसने किमु पक्षपातनिरता हि पुनः ॥ १५ ॥ इहेति ॥ इह देशे इदं हंसकुलं कर्त तरणितप्तं सूर्यतापितं सैकतं सिकताप्रचुरं परिहत्य त्यक्त्वा सर एति । व्यसने निवासनिपाते आपत्तौ सति विरला वसन्ति । पक्षपातनिरता गृह्यत्वाभिनिवेशिनः परिच्छदानां पाते निरताः पुनः किमु ॥ परतो नतं जघनपाणिभराडूहु पूर्वतः कुचभरात्किमपि । पुलिनेषु सूचयति तत्पदयोरमराङ्गनागमनमत्र पदम् ॥ १६॥ परत इति ॥ जघनपाणिभरात जघनयोः पार्योश्च भरात भारात् बहु यथा स्यात्तथा Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३६&oldid=234596" इत्यस्माद् प्रतिप्राप्तम्