नारदः--अहो ! शुभदशा दानघानां यद्विश्वव्यापिना त्वया तदर्थमन्यः
पर्यनुयुज्यते । तदहं किं न विज्ञपयामि? ।
भुवनत्रपमिदमखिलं त्रिपुरप्रभुपरिभवानलज्वलितमू । |
अपिच-----
आकाशः नावकाशः क्षणमपि भवति स्वर्वधूनां विहर्त्तुं |
नारायणः-अयि नारद ! भवानप्येवमाह | किन्न पश्यति भवान् उग्रतपोभिरुग्रमाराध्य दानवा उग्रा भवन्ति । किमहं परवान् करवै ? ।
गदा सदा दानवदारयित्री |
नारदः-( सोपहासम् ) अहो ! प्रभावोऽसुरसृकृतानां, यैः सर्वज्ञा अप्यज्ञताः । प्रापिताः । शम्भुरेवं जानीते, जनार्दनदत्तवरारित्रपुरासुराः । न च भवान् हरवराशङ्की प्रतिकूलेष्वपि तेषु प्रातिकूल्यमवलम्वते । एवमाह मां भगवान्भर्गः । द्वितीयः किल ममात्मा मुरारिरर्द्धाङ्गन्हरस्तत्त्कदाचित्तद्दत्तवरमसुरं प्रहरते ’मह्यं स कुप्येत्, तत्त्वं गत्वा निरूपय ? !
नारायणः-( प्तप्रश्रयम् ) अपि नारद !
देहार्द्धसम्बन्घवरप्रदानैः |
( ततः प्रविशति नन्दीं )
नन्दी-अहो !देवानामभाग्यसम्पत् , यद्देवानामियमितरेतरकलहवल्ली पल्लविता । (समन्तादवलोक्य) कधं प्राप्त एवास्मि विष्णुलोकम् ! । तदिह क नारायणः ? । (पुरोऽवलोक्य ) कथमयं नारायणोनारदेन सह विश्रव्धंमन्त्रयमाणोऽस्ति ।