पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 सव्याख्यायामद्वैतसिद्धौ [ प्रथम: तम; अज्ञानसंबन्धरूपस्यावरणस्यानादित्वेन चित्प्रकाश्यत्वेन चोत्पत्तौ ज्ञप्तौ स्थितौ वा स्वानपेक्षणात् । नन्वद्वितीयत्वादि- विशिष्टे तथा व्यवहारेऽपि अवस्थात्रयेऽप्यसन्दिग्धाविपर्यस्तत्वेन प्रकाशमानात्मरूपेऽध्यासाधिष्ठाने सुखादिज्ञानरूपे चिन्मात्रे तद्भावेन तत्कल्प्ययोर्योग्यत्वायोग्यत्वयोरभाव इति चेन्न; शुद्धरूपायश्चितः प्रकाशमानत्वेऽपि तस्या एव परिपूर्णाद्याका- रेणाप्रकाशमानत्वात्, तदर्थं तस्या एवावरणकल्पनात्, परि- पूर्णाद्याकारस्य मोक्षदशानुवृत्तत्वेन शुद्धचिन्मात्रत्वात् । न च - निर्विभागचितः कथमेवं घटत इति वाच्यम्; आवरणमहिनैव परिपूर्ण ब्रह्म नास्ति न प्रकाशत इति व्यवहारः अस्ति प्रकाशत इति व्यवहारप्रतिबन्धश्व, अध्यासाधिष्ठानत्वादिना प्रकाशमानता चाविरुद्धेति । अत एव अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूप- - आवरणस्यापि । चित्प्रकाश्यत्वेन । चिन्निष्ठत्वेन । ज्ञप्ताविति । चिद्रूपा ज्ञप्तिर्न कारणसापेक्षा, अविद्यावृत्तिरूपा तु विषयविधयाऽविद्या- संबन्धसापेक्षाऽपि न क्षतिकरीति भावः । योग्यत्वायोग्यत्वयोः । नास्तीत्यादिव्यवहारयोग्यत्वास्तीत्यादिव्यवहाराभावयोग्यत्वयोः । निर्वि- भागेति । पूर्णापूर्णभेदशून्येत्यर्थः । महिम्ना अनुभवबलेन । प्रति- बन्धोऽभावः । अविरुद्वेति । आवरणानुभवान्यथा 'नुपपत्त्या पूर्णानन्द- चिद्रूपयोवस्तुतोऽभिन्नयोरपि कल्पिताना दिभेदस्य स्वीकारादविरोध इति भावः । इदं च परलालनम् । वस्तुतः प्रकाशमानेऽप्यात्मन्युक्तरीत्याऽज्ञान- तदभावविषयक योरुक्तव्यवहारयोर्भावाभावौ न विरुद्धौ, अखण्डाकार- चरमवृत्तेरेवाज्ञान विरोधित्वादित्यसकृदुक्तम् । अपरोक्षव्यवहारेति । भा- 1 अनुभावान्यथा - ग. -