पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानवदिऽज्ञानविषयनिरूपणम् आवरणं च तद्योग्यता अज्ञानसम्बन्धरूपा सुषुप्तयादिसाधारणी आब्रह्मज्ञानमवतिष्ठते । तेन सुषुप्तिकाले नानावरणम्, मोक्षकाले च नावरणम् । यदुक्त मस्याप्यारोपितत्वेनावरणसापेक्षत्वमिति, प्रमात्वस्थापनायेदमुक्तम् । वस्तुतोऽविद्यावृत्तित्वमपि प्रतियोग्युपलब्धि- प्रतिबद्धवृत्तेः संभवत्येव; ब्रह्म न भातीत्याकारवृत्तेरपि जीवन्मुक्तानु- वर्तमान विक्षेपशक्तयाऽविद्यालेशेन वा संभवादिति ध्येयम् || 29 1 - , 3 नन्वस्तीतिव्यवहारे चिन्मत्रामेव विषयोऽस्तु, भातीति व्यवहारे तु तस्य विषयत्वे अस्तीतिव्यवहारस्यापि तत्समानविषयकतया तंत्राप्य- भानापादकाज्ञानसंबन्धस्य प्रतिबन्धकत्वापत्तेः, भातीतिव्यवहारे उक्त- ज्ञानाभावविशिष्टा चिदेव विषयोऽस्त्विति - चेन्न; तथासत्यक्ऌप्तस्या- सत्त्वापादकाज्ञान प्रतिबन्धकत्वस्य कल्पनायां गौरवापत्तेः उक्त- ज्ञानाभाव विशिष्टचितस्तद्विषयत्वे तु प्राततिके ' स्वाभावविशिष्ट- विषयकानुपलब्धज्ञाने प्रतिबन्धकत्वस्य क्लृप्तत्वेनागौरवमिति ध्येयम् । अत एव नास्तीत्यादिव्यवहारेऽप्युक्ताज्ञानमेव विषयः, न त्वदन्यत् ; उक्ताज्ञानविषयकापरोक्षवृत्तावुक्ताज्ञान हेतुत्वस्य क्लृप्तत्वात्, अन्यविषय- कत्वे तत्र तद्धेतुत्वस्य कल्प्यत्वात् । एवं च व्यवहाराभावो वेत्यत्र वाशब्दः समुच्चयार्थः । तूलाज्ञानास्वीकारपक्षे तु वृत्त्याविषयत्वसमाना- धिकरणं यदज्ञानविषयतावच्छेदकत्वं तदभाववन्निष्ठा चिदेवास्तित्वादि- रूपेति प्रतिकर्मव्यवस्थोक्तरीत्याऽवसेयम् || नानावरणमिति । सुषुप्तौ नास्तीत्यादिवृत्त्यभावस्तु विशिष्ट- विषयकवृत्तिसामान्यकारणाहकारस्याभावादिति भावः । मोक्षकाले चेति । अस्तीत्यादिवृत्त्यभावस्तदा" नावरणात्, किंत्वहङ्काराभावात्, अत एव जीवन्मुक्तस्योक्तवृत्तिर्भवत्येव; बाधिताहङ्कारानुवृत्तेः । अस्यापि 1 अज्ञानप्रति -ग. 2 उक्ताज्ञानाभाव - क. ग 3 प्रातीतिकस्य -ग. 4 न त्वन्य. " वृत्त्यभावस्तु तदा - ग.