पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानवादेऽविद्याया वाचस्पतिसंमतजीवाश्रयत्वोपपत्तिः 23 कत्वेनाविद्ययेवेति दृष्टान्तानुपपत्तेः । स्वतः परतो वा कालादि- संबन्धेन सर्वसंबन्धेन चासद्वैलक्षण्यसर्वगतत्वयोरुपपत्तेर्न तयो- रर्थे स्वतः कालसंबन्धसर्वसंबन्धापेक्षा । असङ्गत्वश्रुतिरपि स्वतः सङ्गाभावविषयत्वेनोपपद्यते । अत एव – 'अज्ञताऽखिलसंवेतु- र्घटते न कुतश्चन ' इति-निरस्तम् । तस्माच्चिन्मात्राश्रितैवाविद्या | इत्यशानवादे सर्वशस्याज्ञानाश्रयत्वोपपत्तिः ॥ अथाज्ञानवादेऽविद्याया वाचस्पतिसंमत- जीवाश्रयत्वोपपत्तिः ॥ वाचस्पति मिश्रैस्तु जीवाश्रितैवाविद्या निगद्यते । ननु - जीवाश्रिताविद्या तत्प्रतिबिम्बितचैतन्यं वा, तदवच्छिन्नचैतन्यं संवेत्तरिति – तृजन्तम् । यत्तु –ताच्छालिकतृन्नन्तमिति--तन्न ; मानाभावात्, कैवल्ये वेत्तृत्वाभावेन विषयवेदनस्वभावत्वाभावात् । वस्तुतो ज्ञातृपरतया परेण प्रयुक्तत्वाद्वेत्तृपदमसाध्वेव; ज्ञानार्थकविदेः सेट्त्वेन वेदितृपदस्यैव ज्ञात्रर्थत्वात् । विचारार्थक विदेरनिट्त्वेऽपि प्रकृते विचारार्थकत्वमसङ्गतमेव ; परोक्षज्ञानेनापि संभवतो विचारस्याज्ञत्वा- विरोधित्वादिति ध्येयम् || तर्कैरित्यादि – सार्वज्ञ्येऽप्यज्ञता चितेः इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां सर्वज्ञस्याज्ञानाश्रयत्वोपपत्तिः ॥