पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथमः अथाज्ञानवादेऽविद्यायाः सर्वज्ञाश्रयत्वोपपत्तिः ॥ - - ननु – शुद्धब्रह्मणश्चिन्मात्रस्याज्ञानाश्रयत्वे सार्वज्ञयविरोधः । न च – विशिष्ट एव सार्वज्ञयम्; 'तुरीयं सर्वहक्सदा' इति शुद्धस्यैव सर्वज्ञत्वोक्तेरिति – चेन्न; सर्वदृक्पदेन सर्वेषां दृम्भूतं चैतन्यमित्युच्यते, न तु सर्वज्ञं तुरीयम्; तस्माद्विशिष्ट एव सार्वज्ञयम् । तच्चाविद्यां विना न संभवतीत्यविद्यासिद्धिः । तथाहि – सर्वज्ञो हि प्रमाणतः, स्वरूपज्ञप्तया वा । तत्र प्रमाणस्य भ्रान्तेश्वाविद्यामूलत्वात् असङ्गस्वरूपज्ञप्तेश्वविद्यां विना विष यासङ्गतेः । तदुक्तम्- 'स्वरूपतः प्रमाणैर्वा सर्वज्ञत्वं द्विधा स्थितम् । तच्चोभयं विनाऽविद्यासंबन्धं नैव सिध्यति ” ॥ इति ॥ न च – स्वरूपज्ञप्ते: स्वतः कालाद्यसंबन्धेऽसत्त्वापातेन स्वतः संबन्धाभावेऽसर्वगतत्वापातेन चाविद्ययेव स्वत एवान्येन संबन्धो वक्तव्य इति – वाच्यम्; अविद्यासंबन्धस्याप्याविद्य- 22 सव्याख्यायामद्वैतसिद्धौ , अथाज्ञानवादेऽविद्यायाः सर्वज्ञाश्रयत्वोपपत्तिः || - सर्वेषां दृक सर्वभासकाभिन्नम् ' । चैतन्यं शुद्धम् । अविद्यामिति । शुद्धे इत्यादिः । प्रमाणतः — वृत्तिज्ञानेन । प्रमाणस्य भाविगोचरानुमितिरूपायाः अविद्यावृत्तेः । भ्रान्तेः विद्य- मानगोचरप्रत्यक्षरूपाया नष्टगोचरस्मृतिरूपायाश्च प्रमाणजन्याया अवि- द्यावृत्तेः । प्रमाणैः – अविद्यावृत्तिभिः । वस्तुस्थितिरियमुक्ता । वस्तुतोऽविद्याश्रयत्वं न सार्वज्ञयेन विरुध्यते, यं प्रत्यावारिकाऽविद्या तत्रैव हि सावज्ञयासंभवः, न च सा जीवान्यं प्रत्यावारिकेति ध्येयम् । 1 सर्वावभासकाभिन्नं -ग. -