पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्या याश्चिमात्राश्रयत्वोपपत्तिः पक्षपातीति सामान्यव्याप्तेरज्ञानं स्वाश्रय एव भ्रान्त्यादिहेतु- रिति विशेषव्याप्तथा बाध इति चेन्न; विशेषव्याप्तिग्राहक- सहचारदर्शनस्य विवादविषयातिरिक्तेऽसंभवेन विशेषव्यातय- संभवात् । न च बन्धस्य चिन्मात्राश्रितमोक्षसामानाधिकरण्यानु- पपत्तिः ; अवच्छेद्यांशमादाय सामानाधिकरण्यस्योक्तत्वात् । ननु – उपाधेः प्रतिबिम्बपक्षपातित्वं तत्र स्वधर्मप्रतिभासकत्वं वा, स्वकार्यप्रतिभासकत्वं वा, स्वकार्यनिष्ठधर्मप्रतिभासकत्वं वा, प्रतिबिम्बं प्रति स्वविषयाच्छादकत्वं वा । नाद्यः; सुषुप्तथाद्यनु- वृत्तस्याविद्यारूपस्याविद्यावच्छिन्नत्वरूपस्य वा, तत्प्रतिबिम्बित त्वस्य वा, सुषुप्तादावननुवृत्तस्य कर्तृत्वप्रमातृत्वादिरूपस्य वा संसारख्याज्ञाननिष्ठत्वाभावात्, ज्ञानक्रियासंस्कारादीनां त्वन्मते अज्ञाननिष्ठत्वेऽपि नित्यातीन्द्रियाणां तेषामात्मनि कदाऽप्य- बिम्बयोरिव' केवलोपहितयोर्भेदात्ताभ्यां केवलमुखं भिन्नमवश्यं वाच्यम्, तच्च तयोरनुगतम् उपहित केवलयोस्तादात्म्यस्यानुभवादिति भावः । विवादविषयातिरिक्त इति । न च – तूलाज्ञाने सहचारदर्शनेन व्याप्तिग्रहान्मूलाज्ञाने तथाऽऽपादनीयमिति – वाच्यम् ; अभानापाद- कस्य तूलाज्ञानस्य स्वानाश्रये प्रमातर्यपि भ्रान्तिजनकत्वादसत्त्वा- पादकस्य तस्यापि स्वानाश्रये विषय एव भ्रमविषयजनकत्वात्तूला. ज्ञानेऽपि सहचारदर्शनात् । तत्र – प्रतिबिम्ब एव । नाद्य इति । स्वधर्मस्यैव प्रतिभासकत्वं स्वधर्मसामान्यस्य प्रति भाकत्वं वाऽभिप्रेत्य तमा सुषुप्तेत्यादिना प्रत्याख्याय द्वितीयं प्रत्याह – ज्ञानेति । ननु कर्तृत्वादेरविद्यापरिणामत्वादविद्यानिष्ठत्वे नाद्यपक्ष एव युक्तस्तत्राह- - - , 1 प्रातबिम्बयोर्मिथो भेद इव - ग. 4 अभिप्रेतम् आद्यं ग. A. VOL. III.

2 प्रमातर्येव - ग. 17 2 -- 3 न्यप्रति-क. ग.