पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः नस्यास्वच्छत्वान्न प्रतिबिम्बोपाधित्वमिति निरस्तम् । यच्चोक्तं चिन्मात्राभिमुख्याभावादिति, तत्कि सर्वात्मना चिदाभिमुख्या- भावाद्वा, आभिमुख्यमात्राभावाद्वा | नाद्यः; चैतन्यवद्विभुत्व- पक्षे सर्वात्मनापि संभवात् । न्यूनपरिमाणत्वेऽपि न दोष: न्यूनपरिमाणस्याप्यधिकपरिमाणाकाशादिप्रतिबिम्बोद्ग्राहित्वद - र्शनात् । न द्वितीयः; चैतन्यस्य सर्वतोपरी प्रसृतत्वेन व्यव धानाभावेन चाभिमुख्यस्य सद्भावात् । न चाकाशाद्यात्मना परिणामे प्रतिबिम्बापायापत्ति:; प्रतिबिम्बप्रयोजकरूपाविरोधि- परिणामस्य प्रतिबिम्बाविरोधित्वेन प्रतिबिम्बानपायात् । न च मुखप्रतिमुखानुगतमुखत्वातिरिक्तमुखमात्ररूपव्यक्तयन्तरस्येव जीवब्रह्मानुगतचित्वातिरिक्तचिन्मात्ररूपस्याज्ञानाश्रयत्वयोग्य व्यक्तथन्तरस्या भावान्मुखमात्र संबन्ध्या दर्शवच्चिन्मात्रसंबन्ध्य ज्ञानमिति कथमिति – वाच्यम्; अपरामृष्टभेदस्य मुखादेर्मा- त्रार्थत्वेनानुगतधर्म्यतिरेक संभवात् । ननु – उपाधिः प्रतिबिम्ब- 1 रूपत्वादेव । विभुत्वपक्षे अज्ञानस्य परममहत्त्वपक्षे । न्यूनेति । जलादेरित्यादि । सद्भावादिति । देशविशेषस्थत्वं बिम्बोपाध्योराभिमुख्यं प्रतिबिम्ब प्रयोजकमिति तु न युक्तम्; अननुगतत्वात् । रूपा- विरोधीति । म्फटिकादेश्चूर्णादिरूप परिणामम्य प्रतिबिम्चविरोधित्वेऽपि पात्रविशेषादिरूपः परिणामो न तथेति परिणाममात्रं न तथेति भावः । मुखप्रतिमुखेत्यादि । बिम्बमुखप्रतिबिम्बमुखयोरनुगतस्य मुखत्वान्यस्य मुखमात्ररूपव्यक्तयन्तरस्येत्यर्थः । अपरामृष्टभेदस्येति । प्रतिबिम्ब- त्वोपहितमुखादितः परामृष्टो गृहीतो मेदो यत्र बिम्बत्वोपहितमुखादौ तदन्यस्येत्यर्थः । मात्रार्थत्वेन – बिम्बप्रतिबिम्बानुगतं मुख मात्रमिति वाक्यगतमात्र शब्दार्थत्वेन । धर्म्यतिरेकेति । उपाधिभेदेन बिम्बप्रति- 1 रूपत्वादः - ग. 2 प्रतिबिम्बे - ग. नुगतमुख-ग. 16 3 - -