पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

412 सव्याख्यायामद्वैतसिद्धौ [प्रथमः किंचिदवच्छिमतदाश्रितस्यापि तदाश्रितत्वानपायात्, कर्णश- कुल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववत् । एवं च भावाभावसाधारणमावरणमिति मतेन साध्यमुपपादितम् । अभावो नावारक इति सिद्धान्ते तु साध्यद्वये तात्पर्यम् । - हितानाश्रितत्वात्तत्राह – किंचिद वच्छिन्नतदिति । अज्ञानोपहितचित एव वृत्त्युपहितत्वेन स्वोपहिताश्रितमपि ज्ञानमज्ञानोपहिताश्रितमिति द्वितीयपक्षे न दोषः । अज्ञानम्य शुद्धाश्रितत्वपक्षेऽपि शुद्धस्यैवाधि- ष्ठानत्वेन तत्तदुपाधिसंबन्धात्तदाश्रितत्वं ज्ञानस्याविरुद्धम् । आकाशा- श्रितत्वेति । तार्किकादिमते शुद्धाकाशभिन्नत्वेनाभ्युपगतस्य कर्णाव च्छिन्नाकाशस्य धर्मः शब्दो यथा शुद्धाकाशस्यापि धर्मः ; अन्यथा. शुद्धाकाशस्यातीन्द्रियस्य शब्दाश्रयत्वेनानुमानासंभवात्, तथा मन्म- तेऽपि उपहितचिति शुद्धस्याधिष्ठानत्वेनानुग मात्तत्प्रतीतौ प्रतीतेश्च ' तमेव भान्तमनुभाति सर्व मित्यादिश्रुतेरुपहितचिदाश्रयस्यापि तद्- घिष्ठानाचदाश्रितत्वम् । दृश्यत्वं तु शुद्धचित्तादात्म्यादिरूपत्वान्न शुद्ध- निष्ठम् ; अभेदे संबन्धविरहात्, मिथ्यात्वमपि न शुद्धनिष्टम् ; तत्सा- धकदृश्यत्वादेः शुद्धनिष्ठत्वाभावात् श्रुत्यादिना शुद्धस्य सत्यत्वप्रमितेश्च । तथाच बाधकं विनोपहिताश्रितस्य शुद्धचिदाश्रितत्वमिति भावः । यथा श्रुतस्वदेशगतत्वानुसारेणेदमुक्तम् । विवक्षितं तु स्वावच्छेदकदेशा- न्यावच्छिन्नत्वस्वरूपं घटावच्छिन्नपल्लवाज्ञान इवानवच्छिन्नमूलाज्ञा- नेऽप्यस्त्येव । न हि स्वोपहितचिन्मात्रगताया अपि ब्रह्माकारवृत्तेघंटा- धवच्छिन्नत्वं न संभवतीति ध्येयम् । आवरणं अस्ति प्रकाशत इति व्यवहारप्रतिबन्धकत्वम् । नावारकः नोक्तप्रतिबन्धकः । सिद्धान्ते अस्मत्सिद्धान्ते । अवश्याभ्युपेयस्याज्ञानस्यैवोक्तव्यवहारप्रतिबन्धकत्वम्, 1 1 च्छिन्नत्वरूपं -ग. 19 •