पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञान - अनुमानोपपत्तिः 411 । चैतन्येन सहकलोलीभावादज्ञाननिवर्तकत्वं तथोक्तं प्राक् । स्वदेशगतेति च विशेषणं विषयगताज्ञातत्वेनार्थान्तरवारणाय यद्यप्यविद्याविषयत्वरूपमज्ञातत्वमसिद्धम् ज्ञातत्वाभावरूपं तु प्रथमविशेषणेनैव परास्तम्; तथापि प्रथमेन प्रागभावव्युदासा दत्यन्ताभावव्युदासायं चतुर्थमिति द्रष्टव्यम् । ननु – कथं ज्ञानाश्रयगतत्वमज्ञानस्य ? वृत्त्यादिरूपस्य ज्ञानस्याज्ञानाश्रय- चिदनाश्रितत्वादिति - चेन्न; अन्तःकरणस्य चिदाश्रितत्वेन तद्वृत्तेस्तत्प्रतिफलित चैतन्यस्य वा ज्ञानस्य चिदाश्रितत्वसंभवात्, लोक इति न साध्य वैकल्यम् । विषयगतोऽज्ञातत्वाभावस्तु वृत्त्यव- . च्छेद कदेशेनाप्यवच्छिद्यत इति तद्वारणमिति भावः । तथोक्तमिति । तथाच विषयचिद्गताज्ञानमपि प्रमाश्रयचिदाश्रितमिति भावः । असिद्धम् विषयावृत्ति । अविद्याविषयतावच्छेदकत्वं त्वविद्यासिद्धेः पूर्वमसिद्धत्वे- नोद्देश्यसिद्धिकरत्वान्नार्थान्तरसंपादकमित्यपि बोध्यम् । अत्यन्ता- भावेति । सामयिकात्यन्ताभावम्य प्रतियोगिनाश्यत्वमत इत्यादिः । तेन मतान्तरे तस्य स्वनिवर्त्यदळेनैव वारणेऽपि न क्षतिः । चिदना- श्रितत्वादिति । शुद्धस्याज्ञानोपहितस्य वाऽज्ञानाश्रयत्वात्तस्य च वृत्त्यादिरूपज्ञानाश्रयत्वमिति भावः । चिदाश्रितत्वेन - अज्ञानोपहित- चिदाश्रितत्वेन | चिदाश्रितत्वेति – उक्तचिदाश्रितत्वत्यर्थः । अज्ञा- नोपहितचिदेव ज्ञानाज्ञानयाराश्रय इति भावः || - ननु – शुद्धस्याज्ञानाश्रयत्वं तथापि दोषः, न चाज्ञानपरिणाम- मनसोऽपि तत्पक्षे शुद्धाश्रितत्वेन तत्परिणामवृत्तेरपि तदाश्रितत्वमिति - वाच्यम् ; अज्ञानोपहिताश्रितम्य मनसः शुद्धाश्रितस्वासंभवात् अन्यथा दृश्यत्व मिथ्यात्वादेरपि शुद्धाश्रितत्वापत्तेः । अत एवाज्ञानम्य स्वोप हिताश्रितत्वपक्षेऽप्यनुपपत्तिः ; ज्ञानस्यापि स्वोपहिताश्रितत्वेनाज्ञानोप- ,