पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 399 तत्रैव व्यभिचारश्च । न च – तर्हि प्रातरनुभूतचत्वरे गजज्ञा- - नाभावज्ञानं कथमिति – वाच्यम्; ज्ञानानुपलब्ध्यैवेत्यवेहि । अनुपलब्धिज्ञानं च भावरूपाज्ञानेन लिङ्गेन । तथाहि - पूर्व- कालेऽहम्, गजज्ञानाभाववान्, गजाज्ञानवत्वात्, यन्नैवं तत्रैवम्, यथा गजज्ञानवानहमिति, एवं सर्वत्राज्ञानस्य ज्ञानाभावव्याप्य त्वेन तदनुमापकत्वम् । न च – सुषुप्तिकाले ज्ञानाभावानु- मानार्थ भावरूपाज्ञानमिव रागाभावानुमानार्थं द्वेषोऽपि स्वीकर णीयः, तंद्विरोधिपदार्थानुभवं विना तदभावानुमानायोगादिति - वाच्यम् ; भावरूपाज्ञानेन ज्ञानाभावेन वा रागाभावानुमान- संभवात् तस्यापि तद्विरोधित्वात् । अथापरोक्षतो ज्ञातेऽज्ञाना- भावात्कथं परोक्षज्ञानाभावानुमानम् ? सामग्रीविरहादिनेति गृहाण | न चात्राप्यन्योन्याश्रयः; शब्दादीनां योग्यानां योग्यानुपलब्ध्याभावनिथयेन परोक्षज्ञानविरहज्ञानं विनैव साम- ग्रीविरहनिश्चयात्, सुषुप्तिकाले चेन्द्रियादिघटितसामग्रीविरहस्य फलाभावं विना ज्ञातुमशक्यत्वेनान्योन्याश्रयक्तिः । न च स्मरणपक्षे संस्कारानुपपत्तिः; अज्ञानस्याज्ञानवृत्ति प्रतिबिम्बित साक्षिभास्यत्वेन वृत्तिनाशादेव संस्कारोपपत्तेः, अज्ञानवृत्तिप्रति- बिम्बितचैतन्यस्यैव साक्षिपदार्थत्वात् । न च – जागरेऽप्य- प्रातर्घटज्ञानवत्त्वेनास्मृतः प्रातर्घटज्ञानाभाववानिति सामान्यतो व्याप्ति- बांच्या; अन्यथा दृष्टान्ताभावात् तत्र चापेक्षणीयज्ञानस्यैव निवेशे उपेक्षणीयज्ञानस्याभावो न सिद्धयेदित्यर्थः । ज्ञानसामान्य निवेशेऽप्याह- तत्रैवेति । उपेक्षणीयज्ञानघटित इत्यर्थः । उपेक्षणीयज्ञानवत्वेना- स्मृतेऽपि तादृशाज्ञाना 'भावस्यासत्त्वाद्व्यभिचार इति भावः । फलाभाव- ." 1 तादृशज्ञाना-ग अज्ञानप्रत्यक्षोपपत्तिः