पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

398 सव्याख्यायामद्वैतसिद्धौ प्रथमः मेनास्मर्यमाणत्वं च यथाश्रुतं वा सुषुतिकालात्रच्छेदेनेति वा । आद्ये असिद्धि: । द्वितीये तूपेक्षणीयज्ञानाभावो न सिद्धयेत्, , 1 जकत्वात् तन्मात्रस्य प्रयोजकत्वे तूक्तकाले प्रसादो न स्यात्, मरणकाले च स्यात् । न च – स्वरूपसुखा कारवृत्तावितरवृत्त्यभावस्य हेतुत्वात्सैव तत्रानुमापिकेति – वाच्यम्; तस्या जागरे एकाग्रमनोवृत्ति- सत्त्वेऽपि सत्त्वात् । एवं (च) वैषयिकसुखानुभवादेवं प्रसाद इति भ्रान्तिरिति भावः । सुषुप्तिकालावच्छेदेनेति । नियमेत्याद्यनुषज्यते, सुषुप्ति कालावच्छिन्नज्ञानत्वेना स्मर्थमाणत्वमित्यर्थः । असिद्धिरिति । यद्यपि सुषुप्तिकालावच्छिन्नोऽहं पक्षः, तथापि तस्य ज्ञानवत्त्वेन आन्त्या स्मर्यमाणत्व मस्त्येवेति भावः । द्वितीयेत्विति तु शब्दादसिद्धि- र्व्यवच्छिद्यते; सुषुप्तिमात्रस्याव्यावर्तकतया पक्षीभूताह मर्थसुषुप्तेरेव निवेश्य- तया पक्षस्य तदीयसुषुप्तिकालीन ज्ञानवत्त्वेनानुभवितुमशक्यतया उक्त- ज्ञानवत्त्वेनाहार्यज्ञानस्यानुभवत्वस्वीकारेऽपि तस्याकारणतया च पुरुषा- न्तरस्यैव तेन रूपेण स्मर्यमाणत्वात् । नचैव – सुषुप्तिकाली नाहमर्थस्यैव पक्षतया तस्य ज्ञानवत्त्वेनानुभवासंभवादाद्यपक्षेऽपि नासिद्धिरिति---- वाच्यम् ; सुषुप्तिकालस्य तद्व्यक्तित्वेनैव पक्षे निवेशात् । तथाच सुषुप्ते- ज्ञानसामान्याभावरूपतया स्वीयज्ञानाभावकालीनाहमर्थो ज्ञानवानिति ज्ञानस्याहार्यस्वेऽपि तव्यक्तिमानहमर्थो ज्ञानवानिति घीरनाहार्यैक । हेतावपि तथा निवेशे द्वितीयेऽप्यसिद्धिर्बोध्या । नच - जाग्रत्कालीनेs- हमर्थे ज्ञानाभावासत्त्वाद्यभिचारोऽपि कुतो नोक इति – वाच्यम्; स्वसुषुप्तिकालीनज्ञानप्रतियोगिकाभावस्य साध्यत्वमिति भावात् । उपेक्ष- णीयेति । यः स्वकीय सुषुप्तचादिरूपयत्कालीनयाद्वषयक ज्ञानवत्त्वेन न स्मर्यते स तत्कालीनतद्विषयकज्ञानप्रतियोगिकाभावस्याश्रयः, यथाऽहं - of- 9 'देव--ग. " ज्ञानवत्त्वेना- ग. - ●