पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञान प्रत्यक्षोपपत्तिः 385 - विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वाभावात्, का- दाचित्काभावस्य च सामान्याभावत्वायोगात्, न सामान्य- धर्मावच्छिन्न प्रतियोगिताकविशेष प्रतीतिमात्रशरणप्रागभावसिद्धि- रिति न तदुभयमपि विपश्चितां चेतसि चमत्कारमावहति । ननु – यावद्विशेषांभावनिश्चयेऽपि ' रूपं वायुवृत्ति न वा वायू रूपवान वे'ति रूपाभावसन्देहात् निश्चिते च संशयायोगाद्यावद्वि- शेषाभाषान्यसामान्याभावासद्धिः, अत एतावन्त्येव रूपाणीति निश्चयदशायामेतादृशसंशयस्याननुभूयमानत्वेन तदनिश्चयदशा- यामेवैतादृशः संशयो वाच्यः, तथा च 'रूपत्वं पार्थिवाप्यतैज- सरूपात्रतयातिरिक्तवृत्ति भविष्यती' त्यधिकसंभावनया निश्चि तेष्वेव संशयः, उक्तसंभावनाविरहसहकृतनिश्चयस्यैव प्रतिबन्धक- प्रतीतौ तद्धटाभावस्य घटत्वावच्छिन्न प्रतियोगिताकत्वेन भानं न स्यात्, न च – तत्र घटसामान्याभावो भातीति -- वाच्यम्; सामान्याभावस्य कालानवच्छिन्नस्यैव सर्वत्र भानात्तत्राह - कादाचित्काभावस्येति । कालावच्छिन्नतया भासमानस्येत्यर्थः । सामान्याभावत्वायोगात् सामान्यावच्छिन्न प्रतियोगिताकत्वाभावात् । सामान्याभावानभ्युप- गमे यावद्विशेषाभावेषूक्तप्रतियोगिताकत्वमुक्तधीविषय इत्युक्तम् । तद भ्युपगमेऽपि कदाचित्संसृष्टव्यक्तित्वावच्छिन्न प्रतियोगिताको विशेषाभाव एवोक्तधीविषय इति भावः । अथवा कादाचित्काभावस्य कदाचिदेव विद्यमानस्वरूपकाभावस्य | ध्वंसप्रागभावत्वेनाभिमतस्य सामान्याभा- वत्वाभावात् सामान्यावच्छिन्न प्रतियोगिताकत्वाभावात् । तत्र हेतुः प्रतियोगिताकत्वाभावादित्यन्तः । चकारोऽप्यर्थकः, विशेषात्यन्ताभाव- स्येव कादाचित्काभावस्यापि प्रतियोगिता न सामान्यरूपा वच्छिन्नेति -- सामान्यस्वरूपा. 1 अथ. ADVAITA VOL. II. 2 25