पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः कादाचित्काभावत्वम् । जनकत्वं च स्वरूपसंबन्धविशेषः । न प्रागभावघटितः ; प्रागभावस्याजनकत्वापत्तेः, अन्यथात्मा- श्रयात् । अतः प्रागभावमङ्गीकुर्वतोजी तत्प्रत्यक्षत्वं दुर्लभम्, तमनङ्गीकुर्वतस्तु न कापि हानिः । 'इहेदानीं घटो नास्ती' ति प्रतीतिस्तु सामान्यधर्मावच्छिन्न प्रतियोगिताकतत्कालावच्छिन्न- यावद्विशेषाभावविषया; समयविशेषस्याप्यभावावच्छेदकत्वात् । अन्यथा 'आद्यक्षणे घटो नीरूप' इत्यादिप्रतीतिर्न स्यात् । अथास्मिन् पक्षे सामान्याभावो न सिद्धयेदिति – चेत् ; प्रागभावाभ्युपगमेऽपि तुल्यमेतत् सामान्याभावप्रागभावयोः सुन्दोपसुन्दयोरिव परस्परपराहतत्वात् । तथाहि प्रागभावसिद्धौ. विशेषाभावस्थापि सामान्यावच्छिन्नप्रतियोगिताकत्वान्न ताव- न्मात्रप्रमाण कसामान्याभावसिद्धिः, सामान्याभावसिद्धौ च , 384 . काभावत्वमित्यर्थः । अखण्डोपाधिरूपं वा न तु मागभावप्रतियोग्यभाव. त्वरूपत्वमिति शेषः । प्रागभावघटितः कार्यस्य प्रागभाववत्कालत्व- रूपप्राक्कालत्वघटितः । आत्माश्रयेति । प्रतियोगिजनकत्वेन च प्रागभावः कल्प्यते । उक्तजनकत्वं च प्रागभावकल्पनात्पूर्वं ज्ञातु- मशक्यम् ; प्रागभावघटितत्वादतः प्रागभावज्ञप्तिः स्वाधीनेति ज्ञप्ता- बात्माश्रयेत्यर्थः । अन्यथेति प्रतियोगिमत्यत्यन्ताभावानङ्गीकार इत्यर्थः । न स्यादिति । प्रागभावस्यैव नीरूप इति धीविषयत्वे रूपवत्यपि पाकेन जनिष्यमाणरूपप्रागभावमादाय सा स्यादिति शेषः । यद्यपि सामान्याभावोऽप्युक्तषीविषयः संभवति, तथापि विशेषाभावकूटोक्ति- रथेत्यादिग्रन्थावतारणायेति बोध्यम् । तावन्मात्रप्रमाणकेति । उक्त- प्रतियोगिताकत्वषीमात्रप्रमाणकेत्यर्थः । ननु - विशेषाभावप्रतियोगि तापि सामान्यरूपेण वाच्या; अन्यथा इदानीं कपाले घटो, नास्तीति -