पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

372 सभ्याख्यायांमद्वैतसिद्धौ नविशेषे सति सा न व्याहन्यते । तथाच क्लृप्ताभावप्रतीतिवैलक्षण्ये- ज्वश्यकल्प्ये लाघवाद्विषयस्यैवाभाववैलक्षण्यं कल्पयितुमुचितम्; जानामीति बुद्धे ( र्ज्ञानादिमत्त्वधीप्रतिबध्यत्वम् । न च तथापि न जाना- मीति बुद्धे) र्न ज्ञानादिमत्त्वषीप्रतिबध्यत्वम् । न च - तथापि न जानामीति बुद्धेर्भमत्वापत्तिरिति वाच्यम्; इष्टत्वातत्राह तथा चेति । न जानामीति बुद्धाविति शेषः । वैलक्षण्ये स्वविषयीभूताभावप्रतियोगि मत्ताधीप्रतिबध्यत्वशून्यत्वे । लाघवादिति । अहमर्थान्यांशे ज्ञानाभाव- वत्ताबुद्धित्वेन ज्ञानवत्ताषीप्रतिबध्यत्वं त्वयावश्यं वाच्यम्, अन्यथा घटो ज्ञानाभाववानिति बुद्धेरपि घटो ज्ञानवानिति धीविरोधित्वं न स्यात् ; तथाच लाघवाद्धर्मितावच्छेदकत्वसंबन्धेन ज्ञानतदभाववत्ता-- बुद्धयोः प्रतिबध्यप्रतिबन्धकभावकल्पनाज्जानामीति घीकालीनायां न जानामीति बुद्धौ भ्रमत्वस्य दोषजन्यत्वस्य च कल्पनागौरवाच्च तस्यां ज्ञानाभावत्वं न प्रकार: ; किंत्वहमर्थसमानाधिकरणाभावरूप ज्ञानांशे ज्ञानविरोधित्वमिति स्वीकृत्याभावाविषयकत्वं कल्प्यताम् । न च घटो न जानाति न जानामी 'ति प्रतीत्योर्वैरूप्यं दोष इति – वाच्यम्; इदमसुरं बलिरसुर ' इति बुद्धयोरिव तस्यादोषत्वादिति भावः ॥ ननु - - व्यधिकरणधर्मावच्छिन्न प्रतियोगिता काभावस्त्वयापि स्वी- क्रियते, अन्यथा पारमार्थिकत्वेन दृश्याभावघटित मिथ्यात्वलक्षणोक्तिर्वि- रुध्येत ; तथाच प्रतियोग्यंशे प्रकारस्यैवावच्छेदकत्वे मिथ्यात्वानुमानं भ्रमः स्यादिति – चेत्, आन्तोऽसि ; न हि परमार्थ : प्रपञ्चो ब्रह्मणि नास्तीत्यादि मिथ्यात्वानुमानस्याकारः; येन भ्रमत्वं किंतु पारमार्थिकत्वावच्छिन्न प्रतियोगिताकस्वसमानाधिकरणाभावप्रति- योगितावान् प्रपञ्च इत्याकारः । न च-पारमार्थिकत्वेन प्रपञ्चो नास्तीत्या- - स्यात्, 1 अयं कुण्डलितः पाठः ग-पुस्तके न दृश्यते. . [प्रथमः