पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अज्ञानप्रत्यक्षोपपतिः 371 प्रकारीभूतधर्मस्यावच्छेदकत्वं पूर्वानुपस्थितमपि संसर्गमर्यादया शाब्दबोधे अन्यत्र च भासते, न ह्यवच्छेदकत्वस्य स्वरूपसंब- न्धविशेषस्य ग्रहे अन्या सामग्री क्लृप्ता; तथाच तत्तद्विशेषाभा- वानां तत्तद्विशेषावच्छिन्न प्रतियोगिताकत्वात्सामान्यावच्छिन्नप्र- तियोगिताकत्वं यावद्विशेषाभाव कूटे वा व्यासज्यवृत्ति तदति- रिक्तसामान्याभावे वा प्रत्येकविश्रान्तमिति ताहगभावप्रतीते- र्यावद्विशेषप्रतीतिविरोधित्वात्कुतो विशेषसंशयादिरिति चेत्, सत्यम् ; प्रकृतेऽपि ज्ञानत्वसामान्यावच्छिन्न प्रतियोगिताकाभावप्र- तीतिर्यावज्ज्ञान विशेषविरोधिनीति कथं तत्तत्कारणत्वाभिमतज्ञा- परिच्छेदः] संशय निवर्तकत्वमुक्तवाक्यस्य व्युत्पादयन् तद्दष्टान्तेन न जाना- मीत्यस्यापि ज्ञानसामान्याभावविषयकत्वावश्यकत्वेन विरोधमाह -- अथे- त्यादिना व्याहन्यत इत्यन्तेन । अवच्छेदकत्वमिति । प्रतियोग्यंशे प्रकारस्यैवाभावांशेऽप्यवच्छिन्न प्रतियोगिता कत्व संसर्गेण प्रकारता, न तु संसर्गमध्येऽवच्छेद की भूतधर्मस्य निवेश: ; तथा च प्रतियोग्यंशे प्रका रादन्यस्यावच्छेदकत्वभानं दूगपास्तमिति साम्प्रदायिकमतं ज्ञापयितु- मवच्छेदका विशेषितमवच्छेदकत्वं संसर्गत्वेनोक्तम् । अवच्छेदकत्वं प्रति- योगितावच्छेदकत्वम् । अवच्छेदकत्वस्य प्रतियोगितावच्छेदकत्वस्य । तेन प्रतियोगित्वस्यापि स्वरूप संबन्धस्यानुपस्थितस्य संसर्गतया भानोक्ति- र्लभ्यते । अन्येति । अवच्छेदकस्य ग्रहे तु प्रतियोग्य प्रकारतया मासकसामग्रचेव सामग्रीत्वेन क्लृप्तेति भावः । ज्ञानविशेषविरोधि- नीति । ज्ञानादिमति तदभावज्ञानानुदयात्तार्किकादिमंत स्वरूपसत् ज्ञाना- दिकं स्वाभावधीविरोधि, तस्य साक्षिभास्यत्वमते तु ज्ञानादि विद्यमाने स्वाध्ये ज्ञायत एवेत्युभयथापि ज्ञानादिसत्वे तत्सामा न्याभावधी विरुध्यत इति भावः । ननु – रूपाद्यभावबुद्धे रूपादिमत्त्वबुद्धिप्रतिबध्यत्वेपि न 21*