पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

364 सव्याख्यायामद्वैतसिद्धौ

[[प्रथमः

- - - बारोपनिवर्तक प्रमानिवर्त्येऽव्याप्तिः; तस्यापि भ्रमोपादानत्वात् । ननु – भ्रमे भावविलक्षणाज्ञानोपादानकत्वं न घटते; भ्रमस्य भावविलक्षणत्वे उपादेयत्वायोगात्, भावत्वे च भावोपादान- कत्वनियमादिति – चेन्न; अज्ञानस्य भ्रमस्य च भावविलक्षण- त्वेऽप्युपादानोपादेयभावोपपत्तेः । न हि भावत्वमुपादानत्वे उपा- देयत्वे वा प्रयोजकम्; आत्मनि तददर्शनात्, किंत्वन्वयिकार- णत्वमुपादानत्वे तन्त्रम् ; सादित्वमुपादेयत्वे, तदुभयं च न भावत्वनियतम् । अत उपादानोपादेयभावोऽपि न भावत्व- नियतः । न चैवं ध्वंसस्याप्युपादेयत्वापत्तिः; इष्टापत्तेः । न चैवं - ज्ञानप्रागभावस्यैव भ्रमोपादानत्वमस्तु, किमभाववि- लक्षणाज्ञानोपादानकल्पनेनेति – वाच्यम् ; प्रागभावस्य प्रति- योगिमात्रजनकत्वनियमेन भ्रमं प्रति जनकत्वस्याप्यसिद्धेः, तद्विशेषरूपोपादानत्वस्यैव दूरनिरस्तत्वात् । अतः संद्विलक्षण - योरज्ञानभ्रमयोर्युक्त उपादानोपादेयभावः । भ्रमस्य च सद्विल- क्षणत्वमुक्तं वक्ष्यते च । न चैवमज्ञानानुविद्धतया भ्रमस्य प्रतीत्यापत्तिः, मृदनुविद्धतया घटस्येवेति वाच्यम्; यद्यदुपा- निवर्त्य इति -- अज्ञान इति शेषः । तस्यापीति । अभावविलक्षण- स्याप्यज्ञानस्याभावोपादानत्वसंभवस्योक्तत्वेनेत्यादिः । आत्मनीतिः । शुद्धात्मनोऽनुपादानत्वपक्षे शुद्धे इत्यादिः । अन्वयिकारणत्वं---- कार्यात्मक कारणत्वम् । ज्ञानप्रागभावस्य – भ्रम निवृत्तिस्वरूपयोग्य प्र माप्रागभावस्य | निरस्तत्वादिति । प्रागभावे मानाभावः, भावे का परोक्षप्रमानिवर्त्य भ्रमस्यो'पादानत्वं मनोनिष्ठे प्रमाप्रागभावे मः संभ बति । प्रत्यक्षप्रमा यत्र विषये कदापि न जायते, तत्र तत्प्रागभावस्या-

- ● 1 भ्रमत्वस्यो -ग.