पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्यालक्षणोपपत्ति: 363 यद्वा भ्रमोपादानत्वमज्ञानलक्षणम् । इदं च लक्षणं विश्वभ्रमोपादानमायाधिष्ठानं ब्रह्मति पक्षे, न तु ब्रह्ममात्रो- पादानत्वपक्षे, ब्रह्मसहिताविद्योपादानत्वपक्षे वा; अतो ब्रह्मणि नातिव्याप्तिः, इतरत्र तु पक्षे परिणामित्वेनाचेतनत्वेन वा भ्रमोपादानं विशेषणीयमिति न दोषः; न वा अभा- सर्वदोत्पद्यमानेत्यर्थः । अविद्याविषयिकाया एकस्या एव वृत्तेः स्वीकारे तु संस्कारानुपपत्तिः, संस्कारोत्पत्तिपूर्वमेका वृत्तिरिति स्वीकारे संस्कारो- त्पत्तिकालेऽनाद्यविद्यादेरसत्त्वापत्तिः, यावत्कालमेकवृत्तिस्वीकारे न दोष- स्तावत्कालमध्ये एकैव वृत्तिरिति स्वीक्रियते, नाशक विशेष कल्पनानोत्तर- 'वृत्तिमात्रेण तन्निवृत्तिः ; अन्यथानन्तवृत्तिकल्पने गौरवादिति ध्येयम् || , यत्त्वषिकरणातिरिक्तस्येत्याद्ययुक्तम् ; नेतीत्यादिश्रुत्या शुद्ध- चिोषने 'नाधिकरणस्वरूपाभावबोधने तस्या बोधकत्वासिद्धिरिति तन्न ; यतो नेतीत्यादिश्रुतिर्मिथ्यात्वबोधिका न तु चिन्मात्रबोधिका | यत्तु -- प्रतीतिसत्त्वे सुखावेर्निवृत्त्यसंभवः; प्रतीतिनाशकस्यैव तन्नाशकत्वात्, वृत्त्युपहितचितः सुखादिसाक्षित्वे सुखादिषीर्व्यावहारिकप्रमा न स्यात् ; अविद्यावृत्तेदर्दोषजन्यत्वात् वृत्त्यभावकाले चाविद्यादि न स्यात् ; सादिपदार्थ एव तथा नियम इत्यत्र तु न मानमिति – तन्न ; प्रतीति- नाशकासत्त्वे निमित्तनाशादेरपि नाशकत्वात् विषयसंबन्धनाशादेव सुखादिनाशसंभवात् । सुखाद्या कारवृत्तिस्तु प्रमैव; अविद्यारूपदोष- जन्यत्वेऽप्यागन्तुक ढोषाजन्यत्वात् । वृत्त्यभाव कालेऽप्यविद्यादि तिष्ठ- स्येव; निमित्तनाशादिरूपनाशकाभावादविषादेर नावित्वेनानिमित्तकत्वा- दिति भावः ॥ -- ब्रह्मणः परिणामित्ववादिनं प्रत्यप्याह – अचेतनत्वेनेति । 1 चिद्बोधने - ख.