पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

268 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः र्थोऽस्तु । एवमन्यान्यपि श्रुतिपदानि व्याख्येयानीति, तत्पू- र्वोक्तयुक्तिभिरपास्तम् । विस्तरेण च वक्ष्यते तात्पर्यनिरूपणे । तदेवं सद्रूपे ब्रह्मणि पदत्रयेण भेदत्रयनिषेधात्तद्भिन्नमिथ्यात्वे प्राधान्यं चेति द्वयमेवाचार्यैरुक्तम् । तदुभयमपि यद्यप्यद्वितीयपद - विरुद्धत्वेन सङ्ख्यातुल्यं, तथाप्येकवचनात्सा प्राप्ता | तत्तु स्रष्टृत्वादिना प्राप्तमपि न शब्दादित्यतः सा नोक्तेति ध्येयम् । एवमन्यानीति । 'नेह नाने' त्यादीनि ब्रह्मणः प्रपञ्चे पृथग्भावनिषेधकानि । अथवा 'महान्तं विभुमि' त्यादिनोक्तानां धर्मादीनां नानात्वेन निषेधः । ब्रह्मणि विभुत्वादिरूपं धर्मादिकं नानासन्नास्तीत्यर्थः । पूर्वोत्तेति । अद्वैतब्रह्मणः प्राकरणिकतया तदनुसारेण नानाभूतस्य किंचनेति पदोप- स्थापितदृश्यमात्रस्य निषेधौचित्यात्, अन्यथा विभुत्वादिधर्मादीनां निषेधे किंचनेत्यस्य संकोचापत्तेः । नानापदोक्तस्य पार्थक्यस्य निषेधे ब्रह्मण्येव पार्थक्यनिषेधाइह्म नाना न किंत्वेकमित्यर्थ: स्यान्नतु प्रपञ्चो न ब्रह्मणः पृथगित्यर्थः । ब्रह्मण्युक्तनिषेधस्तु 'यदेवेह तदमुत्रे' त्यादिपूर्ववाक्ये कठवल्यां सिद्ध एव | 1 6 अथ – यदेवेत्याद्युक्तप्रपञ्चमात्रं 'नेह नानेत्यत्रत्येहपदे नोच्यत इति तत्र य इह नानेवेत्यत्रत्येहशब्दोक्तब्रह्मणः पार्थक्यं निषिध्यत इति – चेन्न; पूर्वोक्तहशब्द समानार्थकत्वे इहशब्दो हि न प्रपञ्चमात्रं वदेदित्यमुत्रेत्यप्युच्येत, य इहेत्यत्रत्येन च इहशब्देन पार्थक्यप्रतियोगि- तया न ब्रह्मोपस्थितिसंभव इति, प्रतियोगिविशेषानुपादानात्पार्थक्यसामा- न्यस्य प्रपञ्चे निषेधेऽस्मदिष्टसिद्धिः, किंच नेति पदवैय्यर्थ्य च । अथ - गुणगुण्याद्यवयवावयवीत्यादिप्रयुक्तं यद्ब्रह्मणः प्रपञ्चे पार्थक्यं तन्नानाविधं किमपि नास्तीत्यर्थेन तत्सार्थक्यमिति – चेन्न; 'नानाविष्णुं मोक्षदो 1 राजस्तीत्यर्थः-

-ग.

- &