पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः 267 एक. षडि ' ति सूत्रे महाभाष्यकारोऽपि एकशब्दोऽयं बर्थः, अस्ति- संख्यार्थः, अस्त्यसहायवाची, अस्त्यन्यार्थ इत्यादि व्याख्यात- वान् । तथाच जीवादिभ्योऽन्यत्वं प्राधान्यं वा एकशब्दा- त्वाभावात् षट्संज्ञा न स्यात्ततश्च ' षट्चतुर्भ्यश्चे' ति नुडपि न स्यादि- त्याशय षट्संज्ञायामुपदेशवचनं शताबष्टनार्थमिति समाधाय, अथवा ष कारन कार 'सङ्ख्या षट्संज्ञकेत्यर्थ इति समाधानान्तरमुक्ता, तर्हि एकास्ता इत्यादौ, 'षड्भ्यो लुगि ' ति लुक्स्यादित्याशङ्कय, शब्दोऽयं नानार्थ इत्यायुक्ता योऽन्यार्थे वर्तते तस्यैवायं प्रयोग- इति समाहितम् । प्राधान्यं वेति । यद्यपि प्राथम्यादि कमपि तदर्थः परेणाशङ्कितम्, तथापि सर्वकार्यमूलकारणत्वेनोक्तेनैव तल्ला- भात् अविद्यादृष्टादिसहायापेक्षत्वेनासहायत्वासंभवात् अद्वितीयत्वविरोधन सख्या द्य संभवादेकवचनेनैव प्राप्तिसंभवाच्च सर्वलीलाविग्रहाणां नाना विधतत्तत् कार्यकारित्वेन कार्यतः साम्यासंभवात् । सर्वशरीरावच्छिन्नेश- व्यक्तरेकत्वेनैव गुणतः सम्याभावात् तद्भिन्नत्वे सति तद्गुणजातीय- गुणवत्वस्यैव गुणतः साम्यत्वात् असहायत्वं कैवल्यम्, तथैक हल्मध्य इत्यादौ सङ्कोचकप्रमाणवशाद्धलन्तरायुक्तत्वादिरूपम् । प्रकृते सङ्कोच काभावात्स्वान्यसामान्यशून्यत्वमेवेति तदर्थ कमेकपदमम्मदिष्टम् । प्राथम्यं तु प्राधान्यमेव । 'तेनैकदिगि ' ति सूत्रेषु सुदान्ना पर्वतेन सहैका समाना दिगस्या इति सौदामनीत्युक्तिया समानार्थकत्वकल्पनं तु न युक्तम् ; एकजातीयत्वेन समाने गौणप्रयोगसंभवात् । एकधना- वित्यत्राप्येकजातीययथेष्टविनियोगार्हत्वेन गौणप्रयोगः । तथाच सुदानः सदृश दिक्सौदामनी सुदामाख्यपर्वतयुक्तदिक्सदृश दिग्युक्तेति यावत् । चैत्रमैत्रौ सदृशघनौ चैत्रो मैत्रीययथेष्टविनियोगार्हधने यथेष्टं विनि- योति यावत् । अत एवामरः प्रथमाद्यर्थ नोक्तवानित्यतश्चान्यत्वं 2 प्राधान्यादि-ग. 1 नकारआकारान्ता-ख. ग. · -