पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवत्यादिश्रुत्यर्थविचारः 265 सजातीयभेदः । ज्ञानानन्दादिधर्मभेद: खगतभेदः । यदि च 'अस्य गोळिंतीयोऽन्वेष्टव्य इत्युक्ते गौरेव द्वितीयोऽन्विष्यते नाश्रो न गर्दभ' इति महाभाष्यानुसारात्समानजातीय- द्वितीयत्वं द्वितीयशब्दस्य, तदा अद्वितीयशब्दस्य सजातीय- भेद निषेधपरत्वम् ; विजातीयस्वगतभेदनिषेधपरत्वं तु एकाव- स्वभिन्नत्वं सति चिदात्मकत्वं साजात्यं जीवादौ वर्तत इति तनिष्ठभेदः सजातीयभेदः, स च स्वस्मिन्नपि प्रसक्तः, स्वस्य सर्वानुगतत्वादिति भावः । स्वगतभेद इति । ज्ञानानन्दादौ स्वरूपे ब्रह्मधर्मत्वस्य कल्पितत्वाचद्गतभेदः स्वगत इति भावः । व्यावर्तकपदान्तरयुक्तस्य यद्धर्मविशिष्टवाचकपदस्य सन्निहितं द्वितीयपदं तद्धर्मविशिष्टं द्वितीय- मभिधत्ते । तथाचास्य गोद्वितीय इत्यादौ व्यावर्तकेनास्येति पदेन • युक्तस्य गोपदस्य सन्निहितेन द्वितीयपदेन गोरूपद्वितीयबोधनेऽपि प्रकृते व्यावर्तकपदान्तराभावान्न सजातीय द्वितीयबोधकत्वम् । अतएव ' द्वितीयगामी न हि शब्द ' एष नः' इत्यादौ द्वितीयसामान्यपरत्वम् । सजातीयव्यक्तयन्तराभावादपि तस्य न सजातीयपरत्वम् । यद्धर्मविशिष्ट- विषयकबोधे तात्पर्य तद्धर्मेणैव हि साजात्यं वाच्यम्; न चात्र किंचि द्धर्मविशिष्टतात्पर्यकं सत्पदमित्याशयेन यदि चेत्यनेनाम्वारस्यं सूचितम् । जीवेशादेखि प्रपञ्चस्यापि कल्पितं चिदात्मकत्वमादाय सजातीयत्व- संभवः । चित्स्वरूपत्वं तु न ; जीवादेरप्युपहितादिरूपेण मिथ्यात्वात्, ज्ञानानन्दादेरपि सजातीयत्वम्; कल्पितभेदचिदात्मकत्वयोः सत्वात्, तथाच सजातीयनिष्ठभेदोपहितरूपेण ज्ञानानन्दादेर्जडानां च निषेध- संभवाद्रपान्तरेण स व्यर्थः । किंच सजातीयस्वान्यत्वादिना पदत्रयस्य लक्षणैव वाच्या ; द्वितीयगामीत्यादौ स्वान्यत्वेन लघुरूपेणाप्याजानिक - बु 1 एव-ग.