पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धां [ प्रथमः ' स्वगतभेदो नानात्वरूपजीवेश्वरभेदः । सजातीय भेदोऽत्र द्रव्यत्वादिना सजातीयपृथिव्यादिभेदः । विजातीयभेदो गुणा- दिभेदः । अथवा जडभेदो विजातीयभेदः । चैतन्यभेदः एकपदेन एवकारेण द्वैतार्थकद्वितीयपदयुक्तेन प्रतिषेदार्थकनञा चेत्यर्थः । अत्र द्वितीयपदस्य विजातीयद्वितीयलक्षणया तच्छ्रन्य- बोधादर्थात्तादृश द्वितीयस्य भेदो निषिध्यते । आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किचन मिषदि 'त्यत्र घातूनामनेकार्थत्वात्, मिषदिति आसीदित्यर्थ मित्यैतरेयभाष्ये व्याख्यानात्तदेकवाक्यतया प्रकृत द्विती- यपदस्यान्यार्थकत्वात् । लक्षणावश्यकत्वे दित्वसङ्कया पूरकत्वादित्यागे- नात्मान्यविजातीयत्वेन लक्षणाया एव युक्तत्वात्तादृशत्वेन निषेधे बाधका- भावादविनिगम्यत्वाच्च । विशेष्यस्य भेदस्येव विशेषणस्य भेदस्यापि शाब्द एव वा निषेध: । एकपदस्य केवलार्थकत्वेन कैवल्यस्य च स्वान्यशून्यत्वरूपतया प्रकृते संकोचन जीवेश्वरादिरूपस्वान्यशन्य- बोधकत्वाद्भद निषेधबोधकत्वम् । एवकारस्याप्यन्यतादात्म्यव्यवच्छेद- बोधकत्वेऽपि प्रकृते पृथिव्यादिरूपसजातीयस्वान्यतादात्म्यशून्यत्वबोधक. त्वेन विशेषणीभूतानां सजातीयतद्द्वतभेदानामुक्तरीत्या निषेधबोधक- त्वम् । एवंच भेदत्रयस्य पदत्रयेण निषेषोक्तिर्ब्रह्मभिन्न सामान्य मिथ्यात्वे प्रकृतश्रुतेः पर्यवसानोक्तिश्च न व्याहता । यदि च भेदत्रय मात्रस्य प्रकृते शाब्दो निषेधो मेद्यानां त्वार्थ इत्युच्यते तदा द्वितीयाभावे श्रुतेरवान्तर तात्पर्य सङ्गतावपि भेद मात्रपरतया सङ्कोचे मानाभावः । विजा- यादिभेद्यानामपि द्वितीया दिशब्दै र्बोधन संभवादिति ध्येयम् || , -- ननु – पृथिव्यादि न सजातीयम्; शुद्धब्रह्मणो द्रव्यत्वाद्य- नङ्गीकारपक्षे तदसंभवादित्यत्राह - अथवेति । चैतन्यभेद इति । - 1 मिषदिति पदमासीदित्यर्थक इति स्यात्. 2 प्रकृते श्रुतेः- ग. 264 i