पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकूलतर्कनिराकरणम् 179 वडिविशिष्टधियोस्तु बाधकाभावात्सा मान्येनैव धूमप्रवृत्ती प्रति हेतुतेति न पूर्वोक्तदोषापातः । नन्वविद्याभ्यासस्यानादित्वेन दोषाद्यनपेक्षावदधिष्ठानानपेक्षापि स्यादिति चेन्न; जनकत्वेना- घिष्ठानानपेक्षायामप्याश्रयत्वेन तदपेक्षानियमात्, परममहत्वादे- राश्रयापेक्षावत् अध्यासस्य साधिष्ठानत्वनियमेनात्रापि परतन्त्र- त्वस्य समत्वात्, भास्यस्याविद्याभ्यासस्य भासकतयाप्यधि- छानापेक्षणाच। अविद्यावच्छिन्नचैतन्यस्याविद्यादिसकलद्वैतद्रष्ट- त्वात्तस्यैव चान्तःकरणावच्छेदेन प्रमातृत्वात्, भ्रमप्रमयोः सामानाधिकरण्योपपत्तेर्भ्रमस्य समानाधिकरण प्रमानिवर्त्यत्वग्रुप- पद्यते । ननु – देहेन्द्रियादिकं विना कथमन्तःकरणाध्यासः ? कात्रानुपपत्तिः ? अधिष्ठानापरोक्षत्वं ह्यपरोक्षभ्रमे कारणम्, प्रयोजकम्; तत्तदनुगतदोष कार्यत्वस्य भ्रमत्याविशेषेऽपि तत्तद्व्यक्तित्वे- नैवावच्छेदात् । अपितु भ्रमत्वव्याप्यरूपेण दोषजन्यत्वं तत्प्रयोजकम् । तथाच विषयजन्यवृत्तिज्ञानमात्रनिष्ठधर्मस्यापि तथात्वात्तत्प्रयोजकत्वमक्ष- तम् । न चाविद्याविषयकवृत्तेः प्रत्यक्षत्वे इन्द्रिय सन्निकर्षजन्यत्वापत्ति- रिति – वाच्यम्; संयुक्ततादात्म्यादिसन्निकर्षस्याविद्यायां सत्वेनेष्टत्वात्, चाक्षुषत्वाद्यवच्छिन्नं प्रति चक्षुरादिसन्निकर्षहेतुतावश्यकत्वेन सामान्यतः प्रत्यक्षे तद्धेतुत्वे मानाभावाच्च । नव्यमते मानसप्रत्यक्षे सन्निकर्षस्या- हेतुत्वाच साधिष्ठानकत्वनियमेनाविद्याविषयतादात्म्यनियमेनाविद्याध्यासो ययुक्ततादात्म्ययुक्तो न स्यात्तदाऽविद्यासमानविषयकषीनिवर्त्यो न स्यात्, ब्रह्मवत्तुच्छवद्वेति तर्केण तथा नियम इति भावः । भ्रमप्रमयोः भ्रम- तन्निवर्तकप्रमयोः । ननु – नित्यज्ञानस्याबाधित विषयकत्वेन प्रमात्वमिव बाधितविषयकत्वेन भ्रमत्वमित्ययुक्तम् ; न द्यावयोः प्रमात्वं गुण- प्रयोज्यं किंतु स्वतः, तथाच गुणाप्रयुक्तत्वेन प्रमात्वमिव दोषाप्रयुक्त- -- 1 विशेषित-ग. 12*