पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

178. [प्रथमः सव्याख्यायामद्वैतसिद्धौ + जन्यतायां तन्त्रत्वम् ; दोषस्यापि दृश्यत्वेनाभ्यसनीयतयाऽनव- स्थापत्तेः । यथा नित्यज्ञानवादिनां ज्ञानत्वस्य न शरीरजन्य- तादाववच्छेदकत्वम्, नवा गुणजन्यत्वस्य प्रामाण्यप्रयोजकत्वम्, बाधकबलात्, तद्अन्याध्यासं प्रत्येव दोषादीनां कारणत्वम्; गुणाजन्यत्वेऽप्यबाधितविषयतयानित्यज्ञानप्रामाण्यवत् दोषा- जन्यत्वेऽपि बाधितविषयतयानाद्यभ्यासस्याप्यप्रामाण्योपपत्तिः । बाधितविषयत्वेऽपि न दोषजन्यत्वमवच्छेदकम् ; दोषजन्यत्वेऽ- प्यवच्छेदकान्तरान्वेषणेऽनवस्थापातात् । बाघितविषयत्वस्य दोषाजन्यवृत्तित्वेऽपि दोषजन्यत्वस्य तद्वयाप्यत्वोपपत्तेः । अत एवं शबरस्वामिना 'यस्य दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनो नान्य' इति वदता दुष्टकरणजन्यत्वमन्तरे- णाप्यर्थान्यथात्वमप्रामाण्यप्रयाजकमुक्तम् । अविद्याभ्यासरूपस्य साक्षिचैतन्यस्याविद्याजन्यत्वानभ्युपगमात्र प्रतीतिमात्र शरीरत्व- प्रति व्याघात ; अहमज्ञ इत्याद्यभिलापकारणीभूतवृत्तिरूपाध्यासं त्वविद्यायाः कारणत्वमस्त्येव, घटादीनामिव स्वप्रत्यक्षं प्रति । त्वोक्तिर्न युक्ता ; प्रातीतिकस्य तुच्छत्वेन स्वरूपेण निषेधसंभवेऽपि व्यावहारिकस्य तदसंभवादिति रोदनम्, तत्स्वरूपेण निषेषेडाप व्यावहारिकस्य सत्वेन प्रतीत्यर्हत्वादिना तुच्छवैलक्षण्यात्परिहृतम् । यत्तु संशायकस्यापि द्रव्यत्वादेः संस्कारोद्वोधकत्वेन विपर्ययजनकत्व- मिति, तन्न; संशयसामग्रयां सत्यां निश्चयासंभवात् । संशयनिश्चय: त्वाभ्यां कार्यत्वास्वीकारेऽपि कोटिद्वयस्यैव भासकसत्वे भानावश्यकत्वात् । घटादीनामिवेति । तथाच विषयविषयाऽविद्याजन्यत्वादेवा' विद्यादोष- जन्यत्वमप्रामाण्यप्रयोजकं स्थितमेव । नहि भ्रमत्वेन दोषजन्यत्वमप्रमात्व- ब-ग.