पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

144 सभ्याख्यायाम तसिद्धौ [ प्रथमः विशेषेपि न गन्धो विषयः, तथास्माकमपि चक्षुर्द्वारक- वृत्तौ न गन्धाद्याकारत्वम्, इन्द्रियविषयसम्बन्धानां स्वभा वस्य नियामकस्य समानत्वात् । ननु – आध्यासिकसम्बन्धो शक्यत्वात्स्वच्छत्वकल्पनया तस्य चित्प्रतिबिम्बवत्वसम्भवात् । स्वभा वस्य गन्धादिभेदसामानाधिकरण्यम्य | द्रव्यसमवेतचाक्षुषं प्रति गन्धादि- व्यावृत्तजात्या रूपादेः कारणत्वम् रूपादिव्यावृत्तजात्या गन्धादेः प्रतिबन्धकत्वं वेति गन्धादि भिन्ननिष्ठ इन्द्रियसन्निकर्ष एव चाक्षुषा- छुपधायक इति भावः ॥ यतूछूतरूपाभावात्तौ न प्रतिबिम्ब इति रोदनं तदपास्तमेव । ननु 'असको हाय ' मित्यादिश्रुतिरीशम्य पुण्यपापालेपपरा, ‘स वा एष एतम्मिन् सम्प्रसाद रत्वा चरित्वा दृष्टेव पुण्यं च पापं च पुनः प्रति- न्यायं प्रतियोन्याद्रवति, स यत्तत्र किञ्चित्पश्यत्यनन्वागतम्तेन भवत्य- सङ्गो ह्ययम्,' एवं 'सवा एष एतम्मिन् स्वप्ने रत्वा चरित्वा' इत्यादि ‘स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वे ' त्यादिपर्यायत्रये सुषुप्ति - स्वप्रजाग्रत्सु जीवं रमयितुश्चारयितुः पुण्यपापे दर्शयितुश्चेश्वरम्य तत्त- त्कर्मलेपो नाम्तीत्यस्मिन्नर्थे : अनन्वागतस्तेन भवती ' त्यन्तेनाक्ते कर्म- लेपसामान्याभावरूपस्यासङ्गत्वम्य हेतुत्वेन प्रतिपादनात्. • स्वप्रेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एकहंसः ॥ ' 9 इति पूर्वोक्तश्लोके ईशस्य प्रकृतत्वाच्चेति चेन्न; तत्त्वज्ञत्वेनशम्य पुण्यपापलेपाप्रसक्तया तन्निषेधवैयर्थ्याज्जीवनिष्ठस्या कर्तृत्वाद्यज्ञातस्यैव तच्छ्रत्यर्थत्वौचित्यात् । अन्यथा तत्वान्तेषु' पश्यति इत्यत्र पर्यायत्रयेऽव्य- श्रुतस्य णिजर्थस्य कल्पनापत्तेः । अयमित्यपरोक्षवाक्यस्येश्वरे विरुद्ध क्लान्तेषु - ख. ग. at