पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् - वाच्यम्; रजताकारवृत्त्यवांच्छन्नचंतन्यस्य रजत भ्रमाधिष्ठानत्वान भ्युपगमात्, इदमंशावच्छिन्न चैतन्यमेव तु रजतभ्रमाधिष्ठानम्, तच्च दैवाद्रजताकारवृत्त्यवच्छिन्नचैतन्यमपि, नैतावता भ्रमाधिष्ठा- नत्वे तदपेक्षा | तस्य च भ्रमविरोधिशुक्तित्वाद्याकारणाज्ञानं भ्रम- कारणम् । तेनांकारेण ज्ञानं भ्रमनिवर्तकम् । अतएव न ज्ञानं रजतमिति भ्रमाकारापत्तिः; वृत्यवच्छिन्नस्यैव ज्ञानत्वात्तस्य चाघिष्ठानत्वाभावात् । अधिष्ठानतादात्म्येन चारोप्यप्रतीतिरितीदं रजतमित्येव भ्रमाकारः । ननु – घटादेः स्वसन्निकृष्टेन्द्रिय- जन्यस्वज्ञानात्पूर्व सत्वेन तत्राध्यासो न युक्तः । न च – या घटेन्द्रियसन्निकर्षजा वृत्तिस्तया घटो न प्रकाश्यः । येन च प्रकाश्यो घटाधिष्ठानचैतन्येन न तत्सन्निकर्षजमिति – वाच्यम्; वृत्त्यतिरिक्तज्ञाने मानाभावात् । अज्ञाननिवृत्तेरपि तत एव भावादिति -- चेन्न; वृत्त्युदयात्प्रागज्ञातार्थसिद्धयर्थं वृत्यतिरिक्त - ज्ञानस्यावश्यमभ्युपेयत्वात् । अन्यथा तस्य साधकाभावेन शश- शृङ्गतुल्यतया 'सन्निकर्षतञ्जन्यज्ञानहेतुत्वेन प्राक् सत्त्वकल्पना विषयश्च सत्यमिथ्यावस्तुनोरन्योन्यात्मकतयकतामापन्नः, तनैकविषयाव- च्छिन्न फलैकत्वोपाधौ सत्यमिथ्याज्ञानद्वयमध्येकमित्युपचर्यते इति । तथाच सापेक्षोपाध्योरत्यन्तभेदकत्वे, नेदं युज्यत इति भावः । इदमं- शेति । इदमंशो विशेषः शुक्तित्वाद्रीत्यर्थः । अधिष्ठानतादात्म्येनेति । आधारतादात्म्येनेत्यर्थः । भ्रमे भासमानोऽधिष्ठानस्य सामान्यांश आधारो विशेषांशेोऽधिष्ठानमिति स्थितेर्वक्ष्यमाणत्वात् । कारणाप्रवृत्तेरिति । अज्ञातो घट इत्याकारा न प्रमाणवृत्तिः सम्भवति, प्रमाणवृत्तेरज्ञान- विरोधित्वात्तद्गृहणासम्भवात् । स्वभिन्नकालीनाज्ञाततया घटादिविषयिण्या 1 भासमानमधि - क. ग. 91