पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

90 सव्याख्याग्रामद्वैतसिद्धौ [ प्रथमः च्छिन्न एवापरावच्छेदेन निरपेक्षोपाघेरिवात्र भेदकत्वाभावात् । अतएवाभियुक्तैः फलैक्यादैक्यं ज्ञानस्योच्यते । नच-रूप्यादेः स्वज्ञानेऽध्यस्तत्वे रूप्यज्ञानस्याज्ञाने भ्रमोत्पत्तिः तज्ज्ञानेन तन्निवृत्तिरिति च स्यात्, अधिष्ठानाज्ञानज्ञानाभ्यामध्यासस्य जन्मनिवृत्योर्नियतत्वात्, ज्ञानं रजतमिति प्रतीतिप्रसङ्गाचेति - ✓ , इति । ज्ञानविषयसम्बन्धव्यवहारादावित्यर्थः । निरपेक्षोपाधेरिवेति । तावेवोपाधी स्वोपहितभिन्नौ यावन्योन्यनैरपेक्ष्येण स्वोपहितमुपधत्त इति वृद्धोक्तेर्मिलितोपाध्योर्नात्यन्तभेदकत्वम् मठावच्छिन्नं नभस्तद्वत्तिघटा- चवच्छिन्नमित्यभेदस्यापि प्रतीतेः । न चैवमत्यन्त भेदः स्यादिति — बाच्यम् ; औपाधिकभेदस्य दुर्वारत्वात् । अतएव -- अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टरूपयोः । घटते न यदेकत । तदा सुतरां तद्विपरीतरूपयोः || इति संक्षेपशारीरकम् । किंच मिळितयो र्घटावच्छिन्नं नभः पटा- वच्छिन्नमित्यभेदाप्रतीतेः । तथा चाधिष्ठानस्य ज्ञानात्यन्तभेदाभावनियमो न व्याहत इति भावः । अभियुक्तैः– पञ्चपादीविवरणकारादिभिः । फलैक्यादिति । अभियुक्त रूपफलत्वाश्रयस्य चैतन्यस्यैकत्वादेकताप- नाभ्यां शुक्तयादिरजतादिभ्यामवच्छिन्नत्वादित्यर्थः । ज्ञानस्येति । शुक्तीद मंशरजताद्या कारवृत्त्यवच्छिन्नचैतन्ययोरित्यर्थः । उच्यत इति । उपचर्यत इत्यर्थः । तथाच विषययोरेकचैतन्यावच्छेदकत्व रूपान्मिलना- त्प्रत्यक्षतज्ज्ञानयोरपि मिळितं वृत्त्युपाधिकत्वेनात्यन्तभेदाभावादैक्यमत्य- न्ताभिन्नत्वमुपचर्यत इति भावः । उक्तं हि पञ्चपाद्यां " एकमेव' ज्ञान- मेकमेव फल मि " ति तद्व्याख्यातं च विवरणे "विषयावच्छिन्नं फलं 66 1 किंत्वमिलितयोः- क.ख.ग. 2 अभिव्यक्तत्व - क.ग. अभिव्यक्त - ख. 3 मेलनात्- ग. 4 मिलित-ग. 5 एकवेदज्ञान-ग. " एकफल- क.गं.