पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[प्रथमः च न्धगोचरविशिष्टबुद्धेश्चाक्षुषत्वावरोधः; न च – तर्ह्यभावप्रमा- भ्रमयोस्स्वरूपद्वय मात्रविषयत्वाविशेषात् प्रमाभ्रमव्यवस्थानुपप- त्तिरिति वाच्यम् ; घटाभाववीत घटाभावज्ञानत्वेन तद्भिन्नज्ञान- त्वेन च व्यवस्थोपपत्तेः । ननु – अतिरिक्ताविषयत्वे तस्यैवानु- पपत्ति: ; न हि भवद्रीत्या तस्योभयात्मकत्वेन तदुभयसचेन व्यधिकरण प्रकारत्वरूप भ्रमत्वस्यैवाभावे भ्रमतदन्यत्वाभ्यां व्य वस्था सम्भवतीति चेन्न; घटाभावाभावस्य घटत्वेन तद्वति घटाभावज्ञानस्य व्यधिकरणप्रकारकत्वसम्भवात् । किञ्च भ्रमस्य वस्तुगत्या यत् घटवत्स विषयः, न तु प्रमाया इत्यतिरिक्तविप- यत्वमस्त्येत्र ; न चातीन्द्रियाभावे अव्याप्तिः; अत्यन्ताभावे प्रतियोगिदेशान्यदेशत्वम्, प्रागभावादौ प्रतियोगिदेशत्वे सति प्रतियोगिकालान्यकालत्वम्, अनोन्याभावे प्रतियोगितावच्छे- दकदेशान्यदेशत्वम्, विशिष्टप्रत्ययजननयोग्यतावच्छेदकम् । तदवच्छिन्नत्वं च विशिष्टप्रतीत्यजनकेऽप्यतीन्द्रियाभावे सुलभम्, न ह्यरण्यस्थो दण्डो न घटजननयोग्यतावच्छेदकावच्छिन्न इति - चेत्, मैत्रम्; नित्यस्यातीन्द्रियस्याकाशात्यन्ताभावादे विशिष्ट प्रती- तिजननयोग्यतावच्छेदकावच्छिन्नत्वे अवश्यं विशिष्टप्रत्ययजनक- त्वप्रसङ्गात् । नित्यस्य स्वरूपयोग्यस्य सहकारिसमवधाननियमात् । संयोगादिस्वरूपमात्र निष्ठसांसर्गिकविषयता केत्यर्थः । तस्य घटाभाव- वतः उभयात्मकत्वेन स्वरूपसम्बन्धेन घटाभावविशिष्टरूप- तयोभयात्मकसम्बन्धघटितत्वेन । घटत्वेनेति । तथाच तद्भिन्नेत्यस्य घटवद्विशेष्यकरूपतद्विलक्षणेत्यर्थ इति भावः । तेन' तस्यैवानुपपत्तिरिति यदुक्तं, तत्तस्यैवोपपत्त्या समाहितं भवति । समवधाननियमादिति । 1 एतेन. 58 सव्याख्यायामद्वैतसिद्धौ