पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृक्दृश्यसम्बन्धभङ्गः 57 न्तरमन्तरेण विशिष्टप्रतीतिजननयोग्यत्वं स्वरूपसम्बन्ध इति चेन्न; आत्मानं जानामीत्यत्राव्याप्तेः; तत्र सम्बन्धान्तरस्य सम- वायस्यैव सत्वात्, अतीन्द्रियाभावादावव्याप्तेश्व; न हि तस्य विशिष्टप्रतीतिजननयोग्यत्वे मानमस्ति । अन्यथा तेन विशिष्ट- प्रत्ययजननापत्तेः । किञ्च विशिष्टप्रतीतिजननयोग्यत्वं धर्मो वा सम्बन्धः, तादृशस्वरूपद्वयमेव वा । आद्ये स्वरूपस्य सम्बन्धत्व - व्याघातः, प्रतीतिघटितस्याप्य' चाक्षुषादिज्ञानागोचरत्वप्रसङ्गश्च । न द्वितीयः, अननुगमात् । किञ्चैवमभावभ्रमानुपपत्तिः; तत्रापि विशिष्टप्रतीतिसम्भवे स्वरूपसम्बन्धस्य सत्वात् । न च - प्रमात्वघटितं तल्लक्षणम् ; वास्तवसम्बन्धसचे प्रमात्वस्याप्यापा- द्यत्वात् । अन्यथा तत्र तस्याप्रमात्वे सम्बन्धाभावः तस्मिंश्च तस्य प्रमात्वमित्यन्योन्याश्रयात् । ननु – सम्बन्धान्तरमन्तरेण विशिष्टप्रतीतिजननयोग्यतावच्छेदकावच्छिन्नस्वरूपस्य सम्बन्ध- त्वं संयोगत्वावच्छिन्नस्य दण्डीत्यादौ सम्बन्धत्ववत्, सम्बन्धत्ववत्, विशिष्टवु- द्धिश्चावच्छेदकाविषयिण्येवावच्छेद्यविषया, अतो न स्वरूपसम्ब- , गादेरपि गुणादौ स्वरूपसम्बन्धसम्भवेन गुणः संयोगन क्रियावानित्यादे- रपि प्रमात्वसम्भवात्, स्वस्य स्वं प्रति न सम्बन्धत्वम्, म्वप्रतियोगि कत्वस्वानुयोगिकत्वाभावात् । अत एव स्वं न स्वीयमित्यनुभवः, तद्व्यक्तिस्तद्व्यक्तिमतीति चाननुभव इत्यायुक्तम् । सम्बन्धान्तरस्येति । सम्बन्धान्तराविषयकधीनिशे त्वनवस्थादीति” भावः । स्वरूपस्येति । सम्बन्धिस्वरूपस्येत्यर्थः । अभावअमेति | यस्य स्वरूपं सम्बन्धम्तम- त्यर्थः । अवच्छेदकाविषयिणीति । सम्बन्धताबच्छेदकं यत्संयोग- त्वादि उक्तयोग्यतावच्छेदकं वा तदविषयिणीत्यर्थः । अवच्छेद्यविषयेति । 1 तस्यास्य-ग. 2 तव्यक्तिरिति प्रतीनिति 3स्था स्यादति- ग.