पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. परिच्छेदः] असतः साधकत्वाभावे बाधकनिरूपणम् च सम्मतमुदाहरणयुगळम् । तार्किकाणां तु आकाशशब्दप्रयोगे बच्छेदककोटौ तत्तहुद्धिविषयत्वानेवेशो न युक्तः, घटत्वादिप्रकारकशक्ति- ज्ञानीयानन्तहेतुतावच्छेदकेषु गौरवापत्तेः । पर्यायत्वं नानार्थत्वं च सर्वनाम्नस्तत्त्वाद्युक्त मेब । अन्यथा पुनस्सर्वनामत्वमेव व्याहतं स्यात् । सर्ववाचकं हि सर्वनाम ; न तु बुद्धेिविशेषविषय रूप कीञ्चद्वाचकम् । अतएवेतरादिशब्दानां सर्वनामत्वासम्भवासद्गृहणाय, सकलादिशब्दानां तत्सम्भवात्तद्ध्यावर्तनाय गणपाठः । स इदं वा त्वमहं वेत्यादिविकल्पास्तु तत्तत्पदबोध्यविषयकत्वेनोपपादनीयाः || 35 तार्किकाणामिति । यद्याकाशशब्दादाकाशनिष्ठान वच्छिन्नविष- यताकशाब्द 'बोध', 'अस्तु वा पदादपि निर्विकल्पकम्' इति मणावुक्त- त्वात्तदा आकाशशब्दप्रयोगे इत्यम्य आकाशपदजन्यशाब्दबोधे इत्यर्थः । शाब्दबोधे शब्दाश्रयत्वस्यानुपरागात् व्यावर्तकधर्मानुपस्थापकत्वाच्चोपा- धित्वमिति भावः । यदिच शब्दाश्रयत्वादिना कदाचित् अष्टद्रव्यान्य- द्रव्यत्वादिना च शाब्दबोधः, उक्तं हि मणौ ' शब्दाश्रयत्वादिना निय- तोपस्थितिरेव नास्ति' इति; तदाकाशपदजन्यायां शब्दाश्रयत्वान्य- रूपेण शाब्दबुद्धावित्यर्थः । अथवाऽऽकाशपदशक्यत्व इति तदर्थः । तादृशशक्यत्वेऽनुपरक्तत्वाद्वयावर्तकधर्मानुपस्थापकत्वात्तदाश्रयव्यावर्तक- त्वाच्चोपाधित्वमिति भावः । शव्दाश्रयत्वांशेऽपि यदि शक्तिः, 'अस्तु वा तदपि शक्यं यदि तेन रूपेण नियतोपस्थितिः' इति पक्षान्तर- स्यापि मणावुक्तत्वात्तदा शब्दाश्रयत्वं विशेषणमेव, नोपाधिः । अथा- शक्यस्य शब्दाश्रयत्वादेः कथं शाब्दानुभव: ? स्वनिष्ठवृत्त्या शब्दांप- स्थापितस्यैव तत्स्वीकारादिति चेत्तदुक्तं मणौ - ' यद्धर्मवत्त्वेन निय- मत उपस्थिते यत्र शक्तिग्रहः तत्स्मरणजनकसंस्कारस्य तद्धर्मविषयता- 1 सर्वनाममु त्वदुक्त–ग. 2 ताकाशाब्द- ग. " शब्दोर स्थितस्यैव. 3* , -