पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ 34 [प्रथम: प्रतिबध्यते; शक्तयाकांक्षातात्पर्यादिधीसत्त्वे तत्राप्यन्वयबोधात् । नापि प्रयोगः प्रतिबध्यते ; सामग्रीसत्त्वे तस्यावश्यकत्वात् । अहमादिपदे स्वात्ममात्रशक्ते शक्तिग्रहसहकारितयोच्चारयितृत्वादि स्वरूपसदेव धीनि- यामकम् – इति मण्युक्तदूषणमपास्तम्; यावदवयवशक्तिज्ञानविशिष्टशा- ब्दबोधे पद्मत्वादिना हेतुत्वे बाघकाभावात् । कुमुदादौ बोधस्य लक्षण. बैवोपपत्तेः । अतएव पद्माद्यन्वयानुपपत्तिज्ञाने सत्येव कुमुदाद्यन्वयधीः ॥ --- यदपि – "सर्वनाम्नां बुद्धिविषयत्वोपलक्षितप्रकारावाच्छन्ने श- - क्तिः, घटत्वादिना शक्यत्वे तु तदानन्त्यापत्तिः । न च तेषां मिथः पर्यायताऽऽपाद्या ; उद्देश्यतावच्छेद कबुद्धिविषययावद्धर्मावच्छिन्ने सर्व- पदस्य, प्रश्नोपक्रमबुद्धिविषयत्वावच्छिन्ने किंपदस्य, तत्पदोद्देश्यबुद्धि - विषयत्वावाच्छन्ने यत्पदस्य, अवान्तरवाक्योद्देश्यबुद्धिविषयत्वा वच्छिन्ने तत्पदस्य, प्रत्यक्षविषयत्वावच्छिन्ने इदमेतत्पदयोः, व्यवहितबुद्धिविषयत्वा . वच्छिन्ने अदः पदस्य शक्तिस्वीकारात् एवं त्वमहंपदयोरप्यात्ममात्रशक्तत्वे पर्यायतापत्तेः, त्वमहं वेति विकल्पानुपपत्तेश्च ; उच्चारयितृत्वावच्छेद- कत्वप्रकारकविषयत्वोपलक्षितधर्मावच्छिन्नेऽहंपदस्य, सम्बोध्यतावच्छेद- कत्वप्रकारकबुद्धिविषयत्वावच्छिन्ने त्वंपदस्य शक्तिः । स्वरूपसदित्यु क्तमणिवाक्यस्थपदमुपलक्षणविधया शक्यतावच्छेदकानन्तर्गतपरम् । तथा च दृष्टान्ताभावात्पद्मत्वादि न प्रयोगोपाधिः " इति पक्षधरैरुक्तम्, तदपि न युक्तम्; बुद्धिविषयत्वोपलक्षितरूपेण शक्तिस्वीकारेऽपि हि घटत्वादि- रूपेण बोध्यं प्रति बुद्धिविषयत्वेन घटत्वादिप्रकारकशक्तिज्ञानत्वेन कारणता 'वाच्यैव; अन्यथा कदाचिद्घटत्वेन, कदाचिदन्येन रूपेण बोध इत्यत्र नियामकाभावात् । तथाच तत्पदजन्यशाब्दबोधे तत्तद्बुद्धि- विषयत्वेन हेतुता कल्पनया प्रयोगोपाधित्वेनैव निर्वाहे शक्तिज्ञानकारणता- 1द्देश्यसहबु. द. 2 इदं पदस्य - ख. बोधं - क. ग. 4 वाच्येतान्यथा -क. ग.