पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [[प्रथमः 1 व्यावहारिक एव, अनुपहितेन परमार्थसदाकारण तस्यासाधक- त्वात् । एवंच व्यावहारिकसत्त्वमेव सर्वत्र साधकतायां प्रयोजक- मिति स्थितम् । यथा चाज्ञानोपहितस्य साक्षित्वेऽपि नात्मा- श्रयादिदोषः, तथोक्तं दृश्यत्वहेतूपपादने प्राक्, अग्रे च वक्ष्यते । यत्र च यत्साधकं व्यावहारिकं, तत्र तव्यावहारिकम् । यत्र तु साधकं प्रातीतिकं, तत्र फलमपि तथैव, न तु व्यावहारिकमिति सर्वविधिप्रतिषेधादिव्यवहारासङ्करः । अत एव लोकस्यापि प्रयोजकत्वम् । मन्मते घटज्ञानादेरप्युक्त प्रतिबन्धकत्वाभावात् । घट- ज्ञानादेस्साक्षिभास्यत्वनियमेन साक्षिण एव तत्संशयादिप्रतिबन्धकत्वात् । अज्ञानज्ञानकार्ये चाज्ञानज्ञानत्वादिना कारणत्वं साक्षिण एवाज्ञानोप- हितस्येति भावः । परमार्थसदाकारेणेति । शुद्ध ब्रह्म न जग- त्कारणमिति मतावलम्बनाच न दोष इति भावः । व्यावहारिकसत्त्व- मेवेति । एवकारात्पारिमार्थिक सत्त्व मप्रयोजकमित्यर्थः । तेन 'यत्र तु साधकं प्रातीतिक ' मिति वक्ष्यमाणं न विरुद्धम् । नन्वेवं व्यावहारिक- प्रातीतिकयोः कारणत्वे स्वामेन यागादिना स्वर्गादिकं, ब्रह्महत्यादिना च नरकादिकं व्यावहारिकं स्यात्, तयोः प्राततिकमेव स्वर्गादि फलं, अनेन कर्मणा मम स्वर्गादिकं भविष्यतीति परोक्षतया स्वर्गादिप्र- तीतेरिति स्वीकारे व्यावहारिकयागादिनापि प्राततिकमेव स्वर्गादि स्यात् एवं व्यावहारिकदण्डादिना प्रातीतिकघटाद्यपि स्वातत्राह- यत्र चेति । तव्यावहारिकमिति । तद्व्यवहारसिद्धमित्यर्थः । तथैव व्यवहारसिद्धमेव । यादृशस्य यादृशफलं व्यवहारतः प्रमितं तादृशस्य तादृशमेवेति भावः । न तु व्यावहारिकम् । न तु व्यावहारिक- सत्त्वाश्रय एव । व्यवहारासङ्करः । उक्तसङ्करस्याभावः । एतेन- , ब्रह्म जग- ख. 8