पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धारः ऽप्यद्वैतश्रुतिवशा- '" किंतु बाह्यः स चार्थकियाकारित्वसत्त्वोपेतो ब्रह्माण कल्पितो न परमार्थसन्निति सिद्धान्तस्य सुगतमतान्द्भेदः " इति । उक्तं चात्मतत्त्वविवेके- न ग्राह्यभेदमवधूय धियोऽस्ति वृत्ति- स्तद्भाधके बलिनि वेदनये जयश्रीः । नो चेदनित्यमिदमहशमेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः || इति । धर्मिग्राहकमानबाधश्च प्रागेव परिहृत इति शिवम् || इति विश्वमिथ्यात्वस्यागमादिबाधोद्धारः. 503 तत्र साध्यव्यापकता, जाग्रद्धीश्च न बाध्येति तत्र साधनाव्यापकतेति भाव: । ननु मिथ्यात्वानुमाने मानसिद्धस्यैव पक्षीकार्यत्वाद्धर्मिग्राहक- मानबाघस्स्यात्तत्राह – धर्मीति । धर्मिग्राहकमानगतं व्यावहारिकं प्रामाण्यमुपजीव्यम् । एतच न मिथ्यात्वानुमानेनापसार्यते । यच्च तात्त्विकं प्रामाण्यमपसार्यते, तन्नोपजीव्यमित्यादिना पूर्वं तत्परिहृत- मित्यर्थः ॥

तर्कैस्सारस्वतै रनैश्चन्द्रिका चन्द्रभूषणैः । मिथ्यात्वस्यागमाद्यैरप्यबाधाद्धान्तभञ्जनम् ॥ इति विश्वमिथ्यात्वस्यागमादिबाधोद्धारः.