पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः - सारूप्यतो बुद्धितदर्थभेदः स्थूलार्थभङ्गो भवतोऽपि तुल्यः।। सूत्रार्थस्तु – नाभावः ज्ञानातिरिक्तस्यार्थस्य नासत्वम् ; किंतु व्यवहारदशाबाध्यार्थक्रियाकारित्वरूपं सत्त्वमेव उपलब्धेः- ज्ञानातिरेकेण प्रमाणैरुपलब्धेः । स्वप्नवैधर्म्याक्तिर्वाध्यत्वाद्युपाधि- प्रदर्शनाय । तेन बाधात्सोपाधिकत्वाच्च पूर्वानुमानं दुष्टमित्यर्थः । तस्मान्नैवमपि विरोधशङ्का | तदुक्तम्- “तस्मान्न ज्ञानाकारोऽर्थः, 502 द्विषयस्योपायत्वोक्तिः । अथवा उपायो ज्ञानग्रहस्य विषयग्राहकतानि- यामकं ज्ञानविषयकत्वं, तस्य भावेन विद्यमानत्वेन, सर्वथापि सहोपलम्भो नोक्त साध्यसाधक इति भावः । ननु ज्ञानमात्रेण सकलव्यवहारोपपत्तौ ज्ञानात्यन्त भिन्नार्थकल्पने गौरवम्, तत्राह - सारूप्यत इति । अपि- शब्दः काकाक्षिन्यायेनोभयसम्बद्धः | स्थूलार्थभङ्गेऽपि सारूप्यतो ज्ञान- तदर्थयोरत्यन्तभेदः सौत्रान्तिकस्येव तव योगाचारस्यापि आवश्यकत्वेन तुल्यः । सौत्रान्तिको हि स्थूलमवयविनं पृथिव्यादिचतुष्टयान्यगुणादिकं चानङ्गीकुर्वन्नपि परमाणुसङ्घातमेवार्थमङ्गकृतवान् । अन्यथा ज्ञाने विषयस्य प्रतिबिम्बरूपं सारूप्यं तदभ्युपगतं न स्यात् त्वयाऽपि तथाऽ- नङ्गीकारशालिना तथाऽङ्गीकार्यम् । अन्यथा सारूप्य शब्दितं विषयात्मक- रूपस्य साहित्यं तदभ्युपगतं न स्यात् । न च विषयतादात्म्यं स्वसम- सत्ताकमेव ज्ञाने सारूप्यं ममेति वाच्यम् ? तादात्म्य' स्वीकारेऽपि तस्य स्वसमसत्ताकत्वे मानाभावात्, एकस्मिन् ज्ञानस्वरूपे तात्त्विके सर्व- विषयाणां तादात्म्यस्वीकारेण निर्वाहेऽनन्तज्ञानोत्पत्तिकल्पने गौरवात् । न चौपनिषदानामपि विषयाणामनन्तानामुत्पत्तिस्तुल्येति वाच्यम्; औपनिषदानामनादिविषयकज्ञानस्थले कस्याप्युत्पत्तेरकल्पनात्तव तत्रापि ज्ञानोत्पत्तिकल्पनादिति भावः । बाध्यत्वाद्युपाधीति | स्वप्रधीर्बाध्येति 1 विषयग्रहता. 2 ज्ञानादत्यन्त. 3 तदार्थ. 1