पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

496 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः एव पर्यवसानात् । सत्वश्रुतिवाक्यस्थपदानां चान्यपरत्वान सत्त्वे तात्पर्यलिङ्गाशङ्का । ननु यदि सत्त्वश्रुतिः प्रत्यक्षप्राप्तार्थ- त्वान स्वार्थपरा, तर्हि मिथ्यात्वश्रुतिरपि तद्विरुद्धार्थत्वात् स्वार्थ- परा न स्यात्, तत्प्राप्तितद्विरोधयोस्तात्पर्याभावहेत्वोरुभयत्रापि समत्वादिति चेन्न; प्रत्यक्षापेक्षया चन्द्राधिकपरिमाणबोधका- गमस्येव मिथ्यात्वबोधकागमस्यापि बलवत्त्वेन प्रत्यक्षप्राप्तानु - वादिसत्त्व भुत्यपेक्षयाऽपि बलवत्वात्, प्राप्तार्था प्राप्तार्थयोर्मध्ये प्राप्तार्थस्याप्राप्तविध्यर्थत्वेनान्यशेषत्वनियमात्, अप्राप्तार्थस्यान- न्यशेषत्वेन बलवत्वाच्च । अन्यथोभयोरप्यप्रामाण्यापत्तेः । तदुक्तं संक्षेपशारीरके–'अतत्परा तत्परवेदवाक्यैर्विरुद्धयमाना गुणवाद एव' इति । अतएवानन्यशेषमिथ्यात्वश्रुतिविरोधान्न प्रत्यक्षा- गृहीतत्रिकालाबाध्यत्वरूपसत्यत्वपरा जगत्सत्यत्वश्रुतिरित्युक्तम् । अद्वैतश्रुतेश्च प्राबल्ये निरवकाशत्वतात्पर्यवत्त्वादिकमेव प्रयोज- णिकत्वरूपायाः तन्न मोघमित्यर्थकियाकारित्वरूपायाश्चोपपत्तेर्वाक्यशेषे उक्तत्वादिति विश्वसत्त्वमपि तात्त्विकमस्तु, तत्राह -- सत्त्वश्रुतीति । अन्यपरत्वादिति । अस्मन्मते श्रुतिमात्रस्य 'ब्रह्मपरमतात्पर्यकत्वात् पररीत्यापि स्तुत्यादिद्वारा वादिविप्रतिपत्तिनिरासद्वारा वा कर्मप्रवृत्ति- निवृत्तिपरमतात्पर्यकत्वादित्यर्थः । चकारान्मानान्तरप्राप्तिबाधाभ्यां विश्व- सत्त्वे तात्पर्यासम्भवः । तद्विरुद्वेति । प्रत्यक्षतदनुवादिश्रुतिविरुद्धेत्यर्थः । प्रत्यक्ष प्राप्तानुवादिसत्त्वश्रुतीति । प्रत्यक्षं च तत्प्राप्तानुवादिश्रुति- श्चेत्युभयेत्यर्थः । प्रत्यक्षापेक्षया बलवत्त्वमागमत्वादिना विवेचितम् । श्रुत्यपेक्षयापि यद्यपि तत्तद्विवेचितम् ; तथापि दूषणान्तरनिराचिकर्षिया भूयो विवेचयति प्राप्तार्थेति । अतत्परा विश्वसत्त्वादिश्रुतिः । गुणवादः तत्परवाक्यार्थशेषीभूतार्थबोधकृत् । अतएव जगत्सत्त्वश्रुते र्गुणबादत्वा- 1 प्राप्तार्थेति पा ! 2 ब्रह्मतात्पर्य. -