पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धारः 495 मिथ्यात्वश्रुतिरेवान्यपरेत्यपि न, षडिधतात्पर्यलिङ्गोपेतत्वेन मि- ध्यात्वश्रुतेरनन्यपरतया प्रबलत्वात्, वैदिकतात्पर्यविषयस्य च तात्त्विकत्वानियमेन तात्पर्यझापकानामपि लिङ्गानामर्थतथात्व अत्रास'द्वेत्यादिवाक्यं , स्वीकारापत्त्याऽनवस्थापत्तेरित्यर्थो लभ्यते । नासद्बोधकम् ; असतः प्रकृतवाक्यार्थानन्वयात् तत्र मानाभावाच्च । किंतु स्वबोधकं 'तद्धैक आहुः' इत्यादिना स्व बोधनद्वारा सत्त्वैव सोम्येदमित्येतत्तात्पर्यकत्वात् । अतएव कथं नु खल्वित्यादिनाऽर्थहीन- त्वेनोक्तवाक्यमेवाक्षिप्यत इति न परकीयशङ्कावकाश इति ध्येयम् । यत्त – 'द्वितीयाभावस्य ब्रह्मातिरिक्तत्वेऽखण्ड ार्थविरोधित्वान्न तद्बोघे - -- , द्वारता, तस्य ब्रह्मरूपत्वे तु तवारिका धीरपि न जगत्सत्त्वविरोधिनी' इति तत्तुच्छम्; द्वितीयरूपलक्षणादिज्ञानस्येव द्वितीयाभावरूपद्वितीय- ज्ञानस्याप्यखण्डार्थबुद्धौ प्रयोजकत्वेना प्रतिबन्धकत्वात् । द्वितीयत्वेन सद्वैतत्वज्ञानस्यैवाद्वैतधीप्रतिबन्धकत्वात् । किञ्च अधिष्ठानज्ञानं भ्रमो- त्यत्तौ विरोधि, न तु भ्रमोऽधिष्ठानज्ञानोत्पत्तौ युक्तया द्वैतस्य बाधि- तत्वादपि न तद्धीर्विरोधिनी, व्यावहारिकप्रामाण्यानपवादात् अख ण्डार्थधीप्रयोजिकेति द्वितीयाभावस्य ब्रह्मातिरेकेऽपि क्षतिविरहात् । ब्रह्मरूपत्वेऽपि द्वितीयाभावत्वेन ब्रह्मधीद्वारकधीर्विरोधिन्येवेत्यलं मूढ- विडम्भनेन । ननु यत्र तात्पर्य तस्याऽद्वैतस्य सिद्धावपि न तस्य तात्त्विकत्वं सिद्ध्यति, तस्य व्यावहारिकत्वेऽपि तद्बोधकश्रुतेः कर्म- काण्डवत् प्रामाण्योपपत्तस्तत्राह – वैदिकतात्पर्येति । वेदपरमतात्पर्ये- त्यर्थः । तथात्व इति । तात्त्विकत्व इत्यर्थः । पर्यवसानादिति । अद्वैतवाक्यस्य पदार्थशोधनद्वाराऽखण्डवाक्यार्थमहातात्पर्यकत्वेऽपि अख- ण्डवाक्यार्थस्यैवाद्वैतरूपस्य तात्त्विकत्वसिद्धिरिति भावः । नन्वेवं निश्वस- त्त्वेऽपि श्रुतेस्तात्पर्ये लिङ्गमस्ति 'आपश्च न प्रमिणन्ति' इति प्रामा- -- 1 असदेवेत्यादि. 2 स्वबाधन. 3 द्वैतस्य,