पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः ] आगमबाधोद्धारः 1 , विधिग्रहणानुपपत्तेः । अपिचेयं सत्त्वश्रुतिरपि सत्त्वप्रत्यक्षसा- पेक्षत्वात्सापेक्षानुवादिन्येव । न हि सत्चप्रत्यक्षं विना तन्मू- लशक्तथादिग्रहमूलकशब्दप्रवृत्तिसम्भवः । अतएव यत्र तु प्रमा- णान्तरसंवादस्तत्र प्रमाणान्तरादिवार्थवादादपि सोर्थः प्रसि- द्धयति ; द्वयोः परस्परानपेक्षयोः प्रत्यक्षानुमानयोरिवैकार्थप्रवृत्तेः, प्रमात्रपेक्षया त्वनुवादकत्वम् । प्रमाताद्यव्युत्पन्नः प्रथमं प्रत्य- क्षादिभ्यो यथा अर्थमवगच्छति, न तथा आम्नायतः, तत्र व्युत्प च्यपेक्षत्वादिति वाचस्पतिमतमप्येतमर्थं संवादयति । तेनानायस्य क्षणानां तादात्म्येन प्रतिबन्धकत्वकल्पने मानाभावात् । उक्तं हि शास्त्र दीपिकादौ । घटोऽत्र दृष्टो न वेति पृष्टो वदति –– सन्निहितक्षणे मया दृष्ट इतीति । यदिच क्षणानामतीन्द्रियत्वे तुष्यसि तदा क्षण- विशिष्टेत्यस्य क्षणव्यावर्तितो यस्तत्तद्बुध्युत्पत्तिद्वितीयक्षणविनाशिस्थूल- कालस्तद्विशि' (ष्टपरतया घारावाहिकबुद्धीनां स्वोत्पत्तिक्षणद्वितीयक्षण- विनाशिस्थूलकालविशि) ष्टार्थ ग्राहकत्वेन अननुवादता बोध्या । वस्तुतस्तु ‘न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते' इति सिद्धान्ते स्वोत्पत्तिक्षणग्राहित्वं सर्वप्रत्ययानां न सन्निकषदिप्रयुक्तम्, किंतु ज्ञानसामान्यसामग्रीज्ञानोत्पत्तिक्षणविशिष्टार्थविषयकमेव ज्ञानं जनयतीति नियमप्रयुक्तम् । अतएवेच्छादेर्मंदंशादिविषयकत्वं न कारणनियम्यमिति पक्षघरादयः । एवंच वेदजन्यबुद्ध्यनुमित्यादिधाराभ्युपगमेऽपि न द्विती- यादिबुद्धेरनुवादतेति ध्येयम् । अन्यथा वैफल्येनेत्यादि । अध्ययन- स्याक्षरावाप्तयर्थत्वपक्षे अनुवादत्वप्रयुक्त वै फल्यस्यादोषत्वेऽपि क्रतुविध्य - पेक्षितवाफ्यार्थज्ञानार्थत्वपक्षे तादृशज्ञानस्यान्यतस्सिद्धौ तदुद्देशेनानुवादक- वाक्याध्ययने ' स्वाध्यायोऽध्येतव्यः' इति विधिना प्रवृत्त्यनुपपत्तेरित्यर्थः । 3 वैकल्य. 1 शास्त्रदीपिकोन्मेकटीकादौ. 2 अयं कुण्डलितः पाठः क्वाचित्कः 4 क्वचिद्विध्य. 471