पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः वाच्यम्; यतो लाघवादनुवादकत्वमेवाप्रामाण्ये प्रयो- जकम्, न तु सापेक्षानुवादकत्वम्, अनधिगतार्थबोधकत्वस्य प्रामाण्यघटकस्य तावतैव गतार्थत्वात् । न च तर्हि धारावाह- नबुद्धावप्रमाण्यम्; तस्या वर्तमानार्थग्राहकत्वेन तत्तत्क्षण- विशिष्टग्राहकतयानुवादकत्वाभावात् । किन्तु श्रुतेरतत्परत्वे प्राप्तत्वमात्रमेव प्रयोजकम् । अन्यथा वैफल्येन स्वाध्याय - 470 - मिथ्यात्वसाधकस्य धीविषयत्वादिहेतोस्साक्षिव्यावृत्तधर्मावच्छेदेन मिथ्या- त्वबोधक श्रुत्यनुवादत्वाप्रयोजकत्वात्, नेह नानास्तीत्यनेन सत्तादात्म्य- विशिष्टमनूद्य तत्र मिथ्यात्वस्योक्तश्रुत्या विधानात् शून्यवादे च 1 सद्रूपस्यैव अनङ्गीकारेण तथा 2 बोधनाभावात्, न नास्तिकशास्त्रेण श्रुत्यनुवादतेति भावः । यत्तु – " वेदस्यापौरुषेयत्वेन मानान्तरापेक्षयाs- नुवादत्वाभावे 'उरु प्रथस्व' इत्यादिमन्त्रणां पुरोडाशप्रथनादिरूपस्वार्थ- प्रकाशनसामर्थ्यरूपलिङ्गेन विनियोगसिद्धेः ' उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयति' इति ब्राह्मणवाक्यमनुवादकमितिमा घिकरणोक्तं विरुध्येत' इति तत्तुच्छम् ; श्रौतलिङ्गादिषु श्रौतत्वा नादित्वात् पौरुषेयशास्त्रेष्विवाप्रामाण्यशङ्काविरहाच्च । न हि मानान्तर - , , 1 मात्रापेक्षया श्रुतेरननुवादत्वं ब्रूमः । किंतु सादित्वपौरुषेयत्वादिनाऽवेद मूलकत्व सदोषत्वादिशङ्कायुक्तनास्तिकशास्त्राद्येपक्षया । अतएव यत्र फल- पर्यन्तपरीक्षादिना नाप्रामाण्यशङ्का, यथा अवघातादेर्वैतुष्यादिसाधन- ग्राहकलौकिकमाने तेनानु' वादताप्रसक्तेः श्रीहीनवहन्तीत्यादेर्नियमता- त्पर्यकत्वं स्वीकृतम् । वर्तमानेति । वर्तमानकालविशिष्टेत्यर्थः । न क्षणानामतीन्द्रियत्वान्न प्रत्यक्षतेति प्रत्यक्षमण्याद्युक्तम् शङ्कयम्, संयुक्तादिविशेषणतया स्थूलकालस्येव क्षणानामपि ग्रहणयोग्यत्वात् । बाधनाभावात् मानेनानु. प्रत्यक्षप्रामाण्याद्युक्तं. तद्रूपस्यैव. 2 · . 4