पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 261 प्रत्यक्षबलखण्ड नम् सत्यं ब्रूयात्मियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मस्सनातनः ॥ इतीत्याशयेन समाधत्ते --- विचक्षणवतीमिति । चक्षुरिति । विशेषदर्शन- साधनमित्यर्थः । विशेषेण चक्ष्यते दृश्यते अनेनेति व्युत्पत्तेः । 'मनोऽस्य दैवं चक्षुः' इति प्रजापतिविद्या स्थश्रुतौ मनसि चक्षुः पदप्रयोगात्, 'योऽयं दक्षिणेऽक्षिण पुरुषो दृश्यते इति श्रुतौ प्रमाणसामान्ये प्रमा- तृतया यः पुरुषो दृश्यत इत्यर्थात् प्रमाणसामान्ये तत्प्रयोगाच्च । तच्च साधनं द्विविधं, वाक्ये परदुःखाप्रयोजकत्वनिश्चयसाधनविचारः, वाक्यार्थोपलब्धिसाधनमानान्तरं च तत्र द्वितीयस्ययोगो वाचि आवश्यकः, अनुपलभ्यकथने प्रत्यवायादित्याशयेनाह – एतेनेति । प्रथमस्य योगोऽपि तस्यां तथा दुःखप्रयोजके कथिते प्रत्यवायादित्याशयेनाह– एतद्धेति सत्यमिति वाक्सत्यतायां मुख्यं प्रयोजक मित्यर्थः । प्रमाणगृहीतार्थक- मपि परदुःखप्रयोजकं त्याज्यमित्येतदर्थं । मुख्यत्वोक्ति: । मानान्त- रोपलब्धार्थकत्वस्य वाक्सत्यताप्रयोजकत्वे शिष्टव्यवहारमनुवदति । तस्मादाचक्षाणमिति अद्राक् वाक्यार्थं प्रतीतवानसीति प्रश्नः । अदर्श प्रामितिवानहमित्युत्तरम् । अस्य वचनस्य श्रद्दधाति सत्यतां निश्चिनोति आचक्षाणस्य प्रमाणाकुशलत्वे आह यद्युवेति स्वयं श्रोता पश्यति वाक्यार्थ प्रमिणोति । एवंच वाक्यार्थग्राहकमानस्यैव दैवादृष्टत्वे बक्ता नापराध्यति, परिहारासामर्थ्यादित्यशयेनाह – सत्योत्तरेति । तस्मादागमाद्यपेक्षया प्रत्यक्षे श्रद्धालुत्वं चार्वाकसख्य मात्रविजृम्भितमिति बोध्यम् ॥ 6 किंच उक्तश्रुतिर्माधवीयभाष्ये एवं व्याख्याता – "सत्यमेव बाच्यमित्यस्य प्रायेण मनुष्याणामशक्यता अथो खलु' इत्यादि- नोक्ता | सत्यमात्रोक्तिफलाय प्रकारान्तरं विधत्ते - विचक्षणवतीमिति । - । 1 सांख्य.