पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

260 अद्वैतसिद्धिव्याख्यां गुरुचन्द्रिकायां प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् || इतु स्मृतेः, , तस्मात्प्रत्यक्षदृष्टेऽपि युक्तमर्थ परीक्षितुम् । परीक्ष्य ज्ञापयन्नर्थान् न धर्मात्परिहीयते ॥ [प्रथमः इति नारदोक्तेश्चेति भावः यदपि – “ तस्माद्दीक्षितेन सत्यमेव बदितव्यमथो खल्वाहुः कोऽर्हति मनुष्यस्सर्वं सत्यं वदितुं सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति विचक्षणवतीं वाचं वदेच्चक्षुर्वे विचक्षणं विद्येनेन पश्यतीत्येतद्ध वै मनुष्येषु सत्यं निहितं यच्चक्षुस्त- स्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याह अथास्य श्रद्दधाति यधु वै स्वयं पश्यति न बहूनां च नान्येषां श्रद्दधाति तस्माद्विचक्षणवतीमेव बाचं वदेत्सत्योत्तरा हैवास्य वागुदिता भवति भवति" इति दीक्षणी- येष्टेरर्थवादे ऐतरेय ब्राह्मणवाक्यं प्रत्यक्षप्राबल्यबोधकम् ; तत्र विचक्षण- वतीमित्यस्य चक्षुस्संवादिनी मित्यर्थकत्वात्, सत्यं निहिमित्यस्य मान न्तरापेक्षया बलवद्व्यवस्थापितमित्यर्थकत्वाच्चेति । तदपि तुच्छम् । यदि हि चक्षुरेव मानान्तराद्वलवत् तदा त्वगाद्यपेक्षयाऽपि बलवत्स्यात् । यदि चक्षुस्संवादि वदनमेव सत्यं न स्यात् । चक्षुर्वदस्य प्रत्यक्षपरत्वेऽपि अतीन्द्रियादिविषये निर्दोषानुमानादिसंवादि वदनं सत्यं न स्यात् । तस्मादुक्त श्रुतिरेवं व्याख्येया सत्यं व्यावहारिकसत्यार्थकवाक्यं तन्मा श्रोक्तिर्न मनुष्याणां सम्भवति भ्रमबाहुल्यात् तन्मूलकवाक्यानां बहुश: उच्यमानत्वात् । किञ्च 'न ब्रूयात्सत्यमप्रियम्' इत्यादिवच- नेभ्यः 'सत्यमेव वदितव्यम् ' इत्यनुपपन्नमित्यभिप्रायेण अथो खल्बाहु- रित्यादिनाऽऽशङ्कय ‘यद्भूतहितमत्यन्तं तद्धि सत्यं प्रचक्षते' इत्यादि- वचनोक्तलक्षण||क्रान्तवचनमेव सत्यं, तदपि मानान्तरेणोपलभ्धम् यादृशं तादृशं वाच्यम्, न रागद्वेषादिना तद्विरुद्धं वाच्यम् । अतएव || , 9 1 ऊहात्म कज्ञानस्य.