पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छिन्नत्वविचारः 175 न्यूनसत्ताकद्रव्यत्ववत्येव चक्षुः रूपमपेक्षते । ब्रह्मणि च द्रव्यत्वं धर्म्यपेक्षया न्यूनसत्ताकमेवेति न तब्रूहे रूपाद्यपेक्षा । कल्पितत्वं च स्वाभाववति प्रतीयमानत्वं वा स्वरूपज्ञाननि- वर्त्यत्वं वेत्यन्यदेतत् । तस्मात् परिच्छिन्नत्वमपि भवति हेतु - रिति सिद्धम् ॥ इति परिच्छिन्नत्वहेतूपपत्तिः, परिच्छेदः] 1 क्षायामपि सद्रपद्रव्यत्वस्य व्यावहारिकतादात्म्याश्रये व्यावहारिक- गुणादौ चाक्षुषे व्यभिचार, प्रातीतिकस्य तत्तादात्मस्य आश्रये प्रातीतिकगुणादौ चाक्षुषत्वस्वीकारे तत्रापि व्यभिचारः; तथापि धर्म्यन्यूनसत्ताके त्यस्य गुणाद्याश्रयत्वेन पराभिमतं यद्यत्सद्रूपभिन्नं तादृशव्यक्तिगततादात्म्यान्यतमेत्यर्थकत्वान्न दोषः । गुणादेः सद्रूपस्य च तादृशतादात्म्येन सद्रूपद्रव्यत्वानाश्रयत्वात् । एवमन्यत्रापि धर्म्य - न्यूनसत्ताकत्वादिकं निर्वाच्यम् । तेन धर्म्यादिनिवेशगौरवानवकाशः । सत्तात्रैविध्यासिद्धिदशायामपि तदुक्तिसम्भवश्चेति ध्येयम् । चक्षुः चक्षुरादि । रूपं रूपादि । तेन त्वागिन्द्रियादिकमपि न ब्रह्म स्पार्शनादावुद्भूतस्पर्शादिकमपेक्षत इति लभ्यते । ननु अन्यांशे उद्घोषकाद्यभावे घटत्वादिमात्रविषयकस्मृतिः सद्रूपाविषयेति नोक्तहेतु- सम्भव इति चेन्न; सद्रूपभाने उद्बोधकादेः पृथगनपेक्षाया उक्त- त्वात् । न चायं घट इत्यादिज्ञाने घटत्वांशे सद्रूपभाने अयं घटो न वेत्यादिसंशय निवर्तकता न स्यादिति वाच्यम्; जातिमान् घट इत्यादाविव स्वातत्र्येणापि स्वरूपतो घटत्वादिविषयतायास्तत्र सम्भ- बात्, उक्तसंशयेऽपि घटत्वांशे सद्रूपभानाच । न च ब्रह्मज्ञाने' 2 3 2 मपि ब्रह्म. 3 सद्रूपाभाने. 4 सद्रूपाभानाच. 1 धर्म्यसत्ताके. 5 ब्रह्मभाने ज्ञाने.