पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

174 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः सम्पाद्यते, यथा दूरदोषेण प्रतिरुद्धयोग्यताकस्य राहोचन्द्र- सम्बन्धेन । एवंचावरणेन प्रतिरुवयोग्यताकं ब्रह्म घटाद्यव च्छेदेन योग्यं भवति । नभस्तु स्वभावायोग्यमेव, न प्रतिरुद्ध - योग्यताकम् ; येन शब्दावच्छेदेन योग्यं भवेत् । यद्वा द्रव्य- ग्रहे चक्षुषो रूपापेक्षा । न तु अन्यग्रहे । ब्रह्म तु न द्रव्यम्, ‘अस्थूलमनण्वहस्वमदीर्घम्' इति श्रुत्या चतुर्विधपरिमाणनिषेधेन द्रव्यत्वप्रतिषेधात् । अतो नानुपपत्तिः । अस्तु वा द्रव्यम्; तथाप्यध्यस्तद्रव्यवति गुणादौ रूपानपेक्षचाक्षुषत्वदर्शनेन धर्म्य - , 1 2 त्संयुक्तविशेषणता सान्नकर्षसम्भवात् गुरुमते लौकिकान्यप्रत्यक्षविषय- त्वानभ्युपगमाच्च । न च सद्रूपस्य द्रव्यत्वमभ्युपगम्य सिद्धान्त- स्थेदानीमुच्यमानत्वात् द्रव्यप्रत्यक्षे च रूपादिहेतुताया: क्लृप्तत्वात् रूपादिहीने तत्र कथं प्रत्यक्षविषयत्वमिति वाच्यम्; द्रव्यत्वं हि यद्यपि सद्रूपं कल्पिततादात्म्येन स्वस्मिन्नपि वर्तत इति तादृशतादात्म्यं सद्रूपभिन्नद्रव्यव्यक्तिनिष्ठतादात्म्यानि चेत्यन्यतमसम्बन्धेन सद्रूपविशिष्ट- मेव द्रव्यम्; तथापि स्वभिन्नद्रव्यव्यक्तिवृत्तितादात्म्याना ' मन्यतम- सम्बन्धेन सद्रूपविशिष्टं यत् तद्वृत्तिविषयतासम्बन्धेन प्रत्यक्षं प्रति रूपादिहेतुतेति भावः । सद्रूपभिन्नद्रव्यव्यक्तिवृत्तितादात्म्यान्यतमसम्ब- न्धेन सद्रूप वशिष्टमेव द्रव्यमित्याशयेनाह – यद्वेति । व्यावहारिक महत्त्वादिपरिमाणं व्यावहारिकस्य द्रव्यत्वसम्बन्धस्य सद्पेऽनङ्गीकारे अनुपपन्न मिल्यत आह - अस्तु वेति । धर्मीत्यादि । धर्म्यन्यूनसत्ता- ' केन तादात्म्येन द्रव्यत्ववतीत्यर्थः । तेन कर्मधारयोत्तरं मतुपोऽसाधु- स्वेऽपि न क्षतिः । न वा द्रव्यत्वस्य सद्रूपत्वेन द्रव्यव्यक्तीनामिव गुणादिव्यक्तीनामन्यूनसत्ताकत्वेऽपि क्षतिः । यद्यपि यथाश्रुतोक्तविव- 1 विषयत्वान्यानभ्युपगमाञ्च 2 व्यक्तितादात्म्याना 3 व्यवहारावषयत्वमनुपपन्न,