पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 165 गित्वनियमात् । अमूर्तनिष्ठात्यन्ताभावप्रतियोगित्वाभिप्राये तु आत्मनि व्यभिचारस्तदवस्थः । सर्वसम्बन्धित्वाभावविवक्षाया- मपि सर्वसम्बन्धशून्ये परमात्मनि व्यभिचारः, अज्ञाने सर्व- सम्बन्धिन्यसिद्धिश्च । ध्वंसप्रतियोगित्वमपि आकाशादावसिद्धम् । तेषां परैर्नित्यत्वाभ्युपगमात् । अन्योन्याभावप्रतियोगित्वं च आत्मनि व्यभिचारि, तस्य जडनिष्ठान्योन्याभावप्रतियोगि- त्वात् । अन्यथा जडत्वापत्तेः" इति चेन; अत्यन्ताभावे अन्यो- न्याभावे च प्रतियोगिसमसत्त | कत्वविशेषणेन आत्मनि व्यमि- चारपरिहारात् । अज्ञानाकाशादौ च स्वसमानसत्ताकात्यन्ता- भावान्योन्याभावप्रतियोगित्वसत्त्वेन असिद्ध्यभावात् । अवि- द्याकाशादेर्व्यावहारिकस्य पारमार्थिकत्वाभावपक्षे स्वान्यूनस- ताति विशेषणं देयम् । अतएव प्रातिभासिकशुक्तिरूप्यादे परिच्छिन्नत्वविचारः मित्यादिप्रतीत्याऽऽकाशादिसंयोगो वृत्तिनियामक इति वृत्तिनियामकसंयो- गेन प्रतियोगित्वमप्यसिद्धमिति भावः । अभिप्राय इति । संयोगाव- च्छिन्न प्रतियोगितात्वेनैव हेतुः अमूर्तनिष्ठाभावीयं त 'मादायाकाशादाव- प्यस्तीत्यभिप्राय इत्यर्थः । मूर्ते संयोगेनात्मनः सत्त्वेप्यमूर्ते तेन तद- भावाद्व्यभिचार इत्याह – आत्मनीति । उपहितात्मन एवोपादानत्वा- त्साक्षित्वाच्च सर्वसम्बन्धो न तु शुद्धस्येति मत्वाऽऽह — सर्वेति । धर्मीत्यस्य स्वाश्रयेत्यर्थकत्वे स्वपदस्य हेतुपरत्वादन्यतरत्वादिना तादृश- प्रतियोगित्वं शुद्धात्मनोऽपीत्यत आह–अज्ञानाकाशेति । स्वेति । यत्र हेतु स्थाप्यः स स्वपदार्थः । अत्मावृत्तिप्रतियोगितया अत्य- न्ताभावो भेदश्च हेतुः । अतः स्वत्वाननुगमादिर्न दोषः । यद्यपि मिथ्यात्वलक्षणोक्तरीत्या आकाशादेरत्यन्ताभावप्रतियोगित्वे मानाभावः, --- 1 भावीयात्त.