पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां परिच्छिन्नत्वविचार परिच्छिन्नत्वमाप हेतुः । तच्च देशतः कालतो वस्तु- तश्चेति त्रिविधम् । तत्र देशतः परिच्छिन्नत्वं अत्यन्ताभाव- प्रतियोगित्वम् । कालतः परिच्छिन्नत्वं ध्वंसप्रतियोगित्वम् । वस्तुतः परिच्छिन्नत्वमन्योन्याभावप्रतियोगित्वम् । ननु - " सम- वायसम्बन्धेनात्यन्ताभावप्रतियोगित्वं आत्मनि व्यभिचारि, तस्याप्याकाशादिवत् क्वाप्यसमवेतत्वात् । संयोगसम्बन्धेनात्य- न्ताभावप्रतियोगित्वमाकाशादावसिद्धम्; तस्य यावन्मूर्तसंयो- - सिद्धान्ते उक्तत्वात् विशेष्यावृत्तीत्यादेः स्वतः परतो ग्राह्यताविप्रति- पत्त्यनास्पदत्वेन प्रवृत्त्यनुपयुक्तत्वात् । अनुभवत्वघटितस्य प्रमाव्यवहार- मात्रोपयोगेऽपि ज्ञानत्वघटिततद्वतीत्यादेरेव प्रवृत्त्युपयुक्तत्वेन मुख्यत्व- सम्भवात् । तदुक्तं मणौ - प्रवृत्तिसंवादादिना प्रमाण्यं यथार्थत्वमेवानुमीयते न त्वनुभूतित्वे सति स्मृतौ व्यभिचारादिति प्रमापदमुख्यार्थत्वाच्च । उक्तं हि दीधितौ – ' प्रमापदं हि धात्वर्थतावच्छेदकज्ञानत्वपुरस्कारेण यथार्थ - ज्ञानमभिधत्ते । स्मृतिहेतोः प्रमाणान्तरत्वापत्तेः शास्त्रे प्रमाव्यवहारौपयिक स्मृतिव्यावृत्तमनुमन्यते' इति । मणौ निर्विकल्पकं च प्रमाबहिर्भूतं, व्यवहारानङ्गत्वादित्याद्युक्तेः दर्शितत्वाच्च । यच्चानन्दस्य ब्रह्मरूपत्वे तत्तारतम्यानुभवादिकमनुपपन्नमित्युक्तम्, तद समाधेयम् ।। सारस्वतैस्तर्करनैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तखण्डानामखण्डि जडता हुतिः ॥ इति जडत्वनिरुक्तिः. 164 [प्रथमः आकाशादावित्यादिना ईश्वरादिग्रहणम् । सर्वमूर्तेष्वाकाश- 1 मात्रोपयोगितया.